This page has been fully proofread once and needs a second look.

तथा च सूत्रम् -- सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्टातृत्वं
सर्वज्ञत्वं च । ( पा० यो० सू० ३।४९ ) इति ।
 
विषयवती प्रवृत्तिः, विषयवती प्रवृत्ति
विषया गन्धादयस्ते सन्ति विषयत्वेन यस्याः
सा विषयवती प्रवृत्तिः साक्षात्कारात्मिका, सापि चित्तं स्थित
निबध्नाति । तथा हि- - नासिकाग्रे गन्धोपलब्धिस्थाने धारणां कुतो
योगिनो यो दिव्यगन्धसाक्षात्कारोऽल्पेनैव कालेन भवति,
सा गन्धप्रवृत्तिरिति तान्त्रिकपरिभाषा । एवं स्पर्शादिप्रवृत्तिरपि
स्थितिनिवन्धिनीति बोध्यम् । ( द्र० यो० मा० त० व० पा० १
सूत्र ३५ ) ।
 
वीतरागविषयं चित्तम् , वीतरागविषयं चित्त
वीतरागा ये कृष्णद्वैपायनप्रभृतयस्तेषां
चित्तरूपं यदालम्बनं तत्र समापन्नं तेनोपरक्तं योगिनश्चित्त स्थिति-
पदं लभते । तथा च योगसूत्रम् -- "वीतरागविषयं वा चित्तम्"
इति । ( पा० १ सू० ३७ ) ।
 
वीर्यम् , वीर्य
धारणरूपः प्रयत्नः स चासंप्रज्ञातस्योपायभूतः श्रद्धानन्तरं
जायमानः । स च प्रयत्नो जीवेश्वरान्यतरपुरुषतत्त्वज्ञाने योगसाधने
भवति । ( द्र० यो० वा० पा० १ सू० २० )
वीर्यमुत्साह इति भोजदेवः ।
 
वृत्तयः, वृत्ति
वृत्तयः पञ्चतय्यः प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाः ।
ताश्च क्लेशहेतुका: कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः, तथा ख्याति
विषयाः गुणाधिकारविरोधिन्योऽक्लिष्टाः कथ्यन्ते । ( द्र० यो०
मा० पा० १ सू० ५) ।
 
वृत्तिः, वृत्ति
चित्तस्य वृत्तिः दीपस्य शिखेव द्रव्यरूपा मङ्गुराऽवस्थापरि-
णामात्मिका मूषानिषिक्तद्रुतता प्रवत् स्वसंयुक्तार्थाकारा त्रिगुणका-
यंत्वात् सुखदुःखमोहाश्रयतया शान्तघोरमुढ़ाख्याऽस्ति । सा च
चित्तस्य गुणो नास्ति, यथा घटस्य रूपादिगुणः, न वा अग्ने:
स्फुलिङ्ग इव चित्तस्य भागोंऽशरूपा । तथा च सांख्य सूत्रम्--