This page has been fully proofread once and needs a second look.

देशलक्षणभेदो मूर्ति-व्यवधि-जातिभेदा एव च परमाणुनामन्यत्वे हेतवः
सन्तीति । ( द्र० यो० मा० त० ० पा० ३ सू० ५३ )
 
विशेषाणां तत्त्वान्तरपरिणामाभावः, विशेषाणां तत्त्वान्तरपरिणामाभाव
विशेषेभ्यः पृथिवीप्रभृतिभ्य
उत्तरभावि तत्त्वान्तरं नास्ति, अतो विशेषाणां तत्त्वान्तरपरिणामो
नास्ति । यच्च ब्रह्माण्डादिकं गोघटादिकञ्चास्ति परणामरूपं तत्सर्वं
विशेषरूपेणैव अर्थात पृथिव्यादिरूपेणेव गृहीतं न तु तत्त्वान्तर-
रूपेण । अयं भावः - विशेषाणां परिणामास्तु सम्ध्येव किन्तु ते
तत्त्वान्तराणि न सन्तीति सिद्धान्तः । अतएव विशेषाणां धर्मलक्षणा-
वस्थापरिणामा निरूप्यन्ते योगशास्त्रे । तत्त्वत्वञ्चात्र द्रव्यत्वम्,
तच्च प्रधानपुरुषादिपञ्चविंशतितत्त्वेषु वर्तते इति तानि पञ्च-
विशतिस्तत्त्वान्युच्यन्ते । गोघटादिष्वपि द्रव्यत्वलक्षणस्य सत्त्वात्
तदपि तत्त्वमिति मन्यते, किन्तु तत्त्वान्तरं न मन्यते, तत्त्वान्तर-
लक्षणाभावात् । तत्त्वान्तरत्वं तु स्वावृत्तिद्रव्यत्वसाक्षाद्व्याप्यजाति-
मत्त्वम् । तादृश्यश्च जातयः प्रधानत्वपुरुषत्वमहत्त्वादिपृथिवीत्वादि-
पर्यंन्ताः । एवञ्च गोघटादिवृत्तिः पृथिवीत्वजातिरेव पृथिव्यामपि
वर्तत इति स्वावृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वस्य गोघटादाव.
सत्वान्न तत्र तत्त्वान्तरलक्षणं गच्छतीतिन तत्तत्त्वान्तरम् । यदि च
पञ्चविंशतितत्त्वेषु पञ्चविंशतिर्जातयो नाङ्गीक्रियरेन् तदा स्वावृत्ति-
द्रव्यविभाजकोपाधिमत्त्वमेव तत्त्वान्तरत्वमिति स्वीकरणीयम् ।
( द्र० यो० वा० पां० २ सू० १९ ) ।
 
विशोका, विशोका
अस्मिताकार्ये मनसि समापन्नस्य चित्तस्य प्रवृत्तिः सूर्येन्दुग्रह--
मणिप्रभारूपाकारेण विकल्पते, तथाऽस्मितायां समापन्नं चित्तं निस्त--
रङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । एषा द्वयी
अपि प्रवृत्तिविशोका ज्योतिष्मतीत्युच्यते । ( द्र० यो० मा० पा० १
सू० ३६ ) ।
सर्वभावाधिष्ठातृत्वादिरूपा विशोका सिद्धिरिति सर्वदर्शनसङ्ग्रहकारः