साङ्ख्य-योग-कोशः /169
This page has been fully proofread once and needs a second look.
विवेकनिग्नं चित्तम् , विवेकनिग्नं चित्त
विवेकमार्गसञ्चारि, विवेकालम्बनं, विवेक-
निष्ठं वा चित्तं विवेकनिम्नमित्युच्यते । ( द्र० यो० वा० पा० ४
सु० २६ ) ।
विवेकिन : सर्वं दुःखात्मकम् , विवेकिन : सर्वं दुःखात्मक
यत्रापि वर्तमाने सुखं तत्रापि
परिणामे दुःखं भवति । यथा पुत्रकलत्रादिजन्यसुखे रागो जायते,
रागाचच सुखं मे स्थिरं भवतु, मा नश्यतु "इत्यादिसंकल्पाद्यात्मको
मानसः कर्माशयो धर्माधर्मादिरूपो भवति, तस्माच्च पुनर्जन्मादि-
दुःखमिति परिणामदुःखता । तापदुःखञ्च वर्तमानेऽनुभूयमानं सर्वजन-
प्रसिद्धमेव । तथापि इदं दुःखं परिणामेऽपि दुःखकरं भवति ।
तथाहि दुःखमनुभवन् सुखसाधनानि प्रार्थयमानः कायेन वाचा मनसा
च परिचेष्टमानः सन् परमनुगृह्णाति अपहन्ति चेति परानुग्रह-
पीडाभ्यां धर्माधर्मी उपचिनोति, ततश्च तदनुसारं जन्म गृह्ण तोति
तापदु.खं परिणामेऽपि दुःखम् । संस्कारस्य दुःखता यथा – अतीतः
सुखानुभवोऽपि हि सुखसंस्कारमाधत्ते, स च सुखस्मरणमादधाति,
तच्च रागं, रागश्च मनःकायवचनचेष्टां, सा च पुण्यापुण्ये, ततो
जन्मादीति संस्कारदुःखता । एवमिदमना दिदु खस्रोतो योगिनमेव
प्रतिकूलात्मकत्वात् उद्वेजयति नान्यम् । अक्षिपात्रकल्पो हि
विद्वान् । यथोर्णातन्तुमृदुरपि अक्षिपात्रे निक्षिप्तः स्पर्धेन दुःखयति,
नान्येषु गात्रावयवेषु, तद्वत् । अतः परिणामतापसंस्काररदुःखैर्दुःखमैव
सर्वं विवेकिन इति । ( द्र० यो० मा० त० वै० पा० २
सू० १५) ।
विशेषपदार्थाभावः, विशेषपदार्थाभाव
वैशेषिका हि नित्यद्रव्यवृत्तयोऽन्त्या विशेषा
इत्याहुः । तथाहि योगिनो मुक्तांस्तुल्यजातिदेशकालान् व्यवधि-
रहितान् परस्रतो भेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते । तस्मादस्ति
कश्चिदन्त्यो विशेष इति । स एव च नित्यानां परमाण्वादीनां
द्रव्याणां भेदक इति । एतद्द्योगमते नाभ्युपगतम् । यतो हि तत्रापि