This page has been fully proofread once and needs a second look.

विपाकः, विपाक
जाति: ( जन्म ), आयुः, भोगश्चेति त्रयः कर्मणां विपाक
इत्युच्यन्ते । तथा च योगसूत्रम् – "सति मूले तद्विपाको जात्यायु-
भोगा: " पा० २ सू० १३ ) ।
 
विभज्यवचनीयत्वम् , विभज्यवचनीयत्व
यदि कश्चित् प्रश्नं कुर्यात् "कि सर्वो मृत्वा
जनिष्यते ! इति । तदास्योत्तरं विभज्यंव वचनीयम् – प्रत्युदित-
विवेकख्याति: क्षीणक्लेशो न जनिष्यते तदितरस्तु जनिष्यत इति ।
एवं मनुष्यजातिः श्रेयसी न वेति परिपृष्ट विभज्यवचनीयमुत्तरम् -
पश्वपेक्षया श्रेयसी देवाद्यपेक्षया नेति । ( द्र० यो० भा० पा० ४
सू० ३३ ) ।
 
विरामप्रत्ययः, विरामप्रत्यय
वृत्तीनामभावो विरामस्तस्य प्रत्ययः = कारणम् =
पर वैराग्यम्, तदेव विरामप्रत्यय इति वाचस्पतिमिश्राः । (द्र० यो०.
मा० त० वै० पा० १ सू० १८ ) ।
मणिप्रभा-योगमञ्जरीकारावपि मिश्रानेवानुसरतः ।
विज्ञानभिक्षुस्तु – वृत्याऽपि विरम्यतामिति प्रत्ययो विरामप्रत्ययः
=परं वैराग्यम् । अर्थात् ज्ञानेऽप्यलंबुद्धिर्ज्ञानमपि शाम्यतु इत्येवं-
रूपेति व्याचष्टे ।
 
विवेकख्यातिः, विवेकख्याति
चितिशक्तिरपरिणामिनी अतएवा प्रतिसङ्क्रया, सुख-
दुःख मोहात्मकत्वाभावेन शुद्धाचानन्ता चास्ति । एतद् विपरीता परि-
णामिनी सुखदुःखमोहात्मकत्वेनाशुद्धा चास्ति सत्त्वगुणात्मिका विवेक-
ख्यातिरतः सापि निरोद्धव्या निर्बीजसमाधिकाम: । ( द्र० यो०
मा० त० वं० पा० १ सु० २ ) ।
 
विवेकजं ज्ञानम् , विवेकजं ज्ञान
– संसारसागरात्तारकं सर्वविषयकमतीतानागतवतं-
मानविषयकतया सर्वथाविषयकं युगपत् सर्वविषकतयाऽक्रमञ्चेत्यत
एव परिपूर्ण विवेकजं ज्ञानं, नास्य क्वचित् किञ्चित् कदाचिदगोचर
इति । ( द्र० यो० भा० त० व० पा० ३ सू० ५४ ) ।