This page has been fully proofread once and needs a second look.

योगकोशः
 
विपाकः - , विपाक
जाति: ( जन्म ), आयुः, भोगश्चेति त्रयः कर्मणां विपाक

इत्युच्यन्ते । तथा च योगसूत्रम् – "सति मूले तद्विपाको जात्यायु-

भोगा: " पा० २ सू० १३ ) ।
 
८८
 

 
विभज्यवचनीयत्वम् , विभज्यवचनीयत्व
यदि कश्चित् प्रश्नं कुर्यात् "कि सर्वो मृत्वा

जनिष्यते ! इति । तदास्योत्तरं विभज्यंव वचनीयम् – प्रत्युदित-

विवेकख्याति: क्षीणक्लेशो न जनिष्यते तदितरस्तु जनिष्यत इति ।

एवं मनुष्यजातिः श्रेयसी न वेति परिपृष्ट विभज्यवचनीयमुत्तरम् -

पश्वपेक्षया श्रेयसी देवाद्यपेक्षया नेति । ( द्र० यो० भा० पा० ४

सू० ३३ ) ।
 

 
विरामप्रत्ययः - , विरामप्रत्यय
वृत्तीनामभावो विरामस्तस्य प्रत्ययः = कारणम् =

पर वैराग्यम्, तदेव विरामप्रत्यय इति वाचस्पतिमिश्राः । (द्र० यो०.

मा० त० वै० पा० १ सू० १८ ) ।
 

मणिप्रभा-योगमञ्जरीकारावपि मिश्रानेवानुसरतः ।

विज्ञानभिक्षुस्तु – वृत्याऽपि विरम्यतामिति प्रत्ययो विरामप्रत्ययः

=
परं वैराग्यम् । अर्थात् ज्ञानेऽप्यलंबुद्धिर्ज्ञानमपि शाम्यतु इत्येवं-

रूपेति व्याचष्टे ।
 

 
विवेकख्यातिः, विवेकख्याति
चितिशक्तिरपरिणामिनी अतएवा प्रतिसङ्क्रया, सुख-

दुःख मोहात्मकत्वाभावेन शुद्धाचानन्ता चास्ति । एतद् विपरीता परि-

णामिनी सुखदुःखमोहात्मकत्वेनाशुद्धा चास्ति सत्त्वगुणात्मिका विवेक-

ख्यातिरतः सापि निरोद्धव्या निर्बीजसमाधिकाम: । ( द्र० यो०

मा० त० वं० पा० १ सु० २ ) ।

 
विवेकजं ज्ञानम्
, विवेकजं ज्ञान
– संसारसागरात्तारकं
 
सर्वविषयकमतीतानागतवतं-

मानविषयकतया सर्वथाविषयकं युगपत् सर्वविषकतयाऽक्रमञ्चेत्यत

एव परिपूर्ण विवेकजं ज्ञानं, नास्य क्वचित् किञ्चित् कदाचिदगोचर

इति । ( द्र० यो० भा० त० व० पा० ३ सू० ५४ ) ।