This page has been fully proofread once and needs a second look.

विक्षिप्तम् , विक्षिप्त
क्षिप्ताद् विशिष्टं विक्षिप्तम् । तत्र क्षिप्तं सदैव रजसा तेपु
तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरमिति पूर्वमुक्तम् । ततो वि
क्षिप्तेऽयं विशेषो यत् अस्येमबहुलस्य चित्तस्य कादाचित्क: स्थेमा
भवति विक्षिप्ते । ( द्र० त० वै० पा० १ सू० १ )
 
विचार:, विचार
सूक्ष्मभूत-पश्चतन्मात्र- लिङ्गालिङ्गस्वरूपसाक्षात्कारवती या
प्रज्ञा सैव विचारः । तदनुगतो द्वितीयो विचारानुगतसम्प्रज्ञातो
भवति । ( द्र० यो० मा० त० वै० पा० १ सू० १७ ) ।
 
वितर्कः, वितर्क
पाश्चमौतिकस्थूलचतुर्भुजादिस्वरूप साक्षात्कारवती प्रज्ञा वि
तर्कः । तदनुगतः प्रथमो वितर्कांनुगतः सम्प्रज्ञातो भवति । ( द्र०
यो० मा० त० वै० पा० १ सू० १७ ) ।
 
वितर्काः, वितर्क
कृतकारितानुमोदिता हिंसादयो वितर्काः । ते च लोमात्
क्रोधाद् मोहाद् वा भवन्ति । ( द्र० यो० मा० पा० २ सू० ३४ ) ।
 
विदेहाः, विदेह
भूतेन्द्रियाणामन्यतमम् आत्मत्वेन प्रतिपन्नाः तदुपासनया
तवासनावासितान्तःकरणाः पिण्ड - ( देह ) पातानन्तरम् इन्द्रि-
येषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः पाट्कोशिकशरीर-
रहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्ते कैवल्यपद-
मिवानुभवन्तो भवन्ति । विदेहानां चित्तस्य कैवल्पेन सारूप्यमवृत्ति-
कत्वम् , कैवल्येन वैरूप्यञ्च साधिका रसंस्कारशेषत्वरूपमस्ति ।
( द्र० यो० भा० त० वै० पा० १ सू० १६ ) ।
 
विधारणम् , विधारण
रेचितस्य प्राणस्य कौष्ठ्यस्य वायोर्यंदायामो = बहिरेव
स्थापनम् न तु सहसा प्रवेशनम्, तदेव विधारणम् ( द्र० त० वै०
पा० १ सू० ३४ ) । विधारणम् = कुम्भकमिति विज्ञानभिक्षुः ।
 
त्रिविपर्ययः, त्रिविपर्यय
मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ( तद्रूपाप्रतिष्ठम् ), अविद्या
पञ्चपर्वा । तथा च योगसूत्रम् – "विपर्ययो मिथ्याज्ञानमतद्रूप-
प्रतिष्ठम्" इतिं । ( पा० १ सू० ८ )