This page has been fully proofread once and needs a second look.

वशीकारसंज्ञा, वशीकारसंज्ञा
स्त्रियोऽन्नपान मैश्वर्यंमिति दृष्टविषये वितृष्णस्य
स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तो आनुश्रविकविषये वितृष्णस्य दिव्या-
दिव्यविषयसंप्रयोगेऽपि विषयदोषदशिनश्चित्तस्य प्रसंख्यान-
बलादनाभोगात्मिका हेयोपादेयशून्या वज्ञीकारसंज्ञा वैराग्यम् इति
योगभाष्यम् । ( द्र० यो० मा० पा० १ सू० १५ ) ।
अत्र उपर्युक्ता वशीकारसंज्ञा या वितृष्णा संवापर वैराग्य मिति विज्ञान-
भिक्षुविवेचनम् ।
तेषु विषयेषु विगतगधंस्य या वशीकारसंज्ञा अर्थात् "ममैते वश्या,
नाहमेतेषां वश्यः" इति योऽयं विमर्शः तद्वैराग्यमिति भोजदेवः ।
वशीकर्तुं शक्यन्ते सर्वे गौणा: पदार्था, वशीक्रतंव्यत्वेन संज्ञायन्ते,
एवं वशीकृतानि च तस्यामवस्थायामिन्द्रियाणि संज्ञायन्ते, वशी-
करणं वा संज्ञायतेऽस्यामवस्थायामिति साऽवस्था वशीकारसंज्ञा
वैराग्यमिति विवरणकाराः । ( द्र० पा० यो० सू० मा० वि०
पा० १ सू० १५ ) ।
 
विकरणभावः, विकरणभाव
विदेहानां स्थूल देहसम्पर्क रहितानामिन्द्रियाणामभिप्रेत-
देशापेक्षोऽभिप्रेत कालापेक्षोऽभि तविषयपेक्षश्च यो वृत्तिलाभः स
विकरणभावः । अर्थात् अपेक्षितदेशकालविषयानुसारं बाह्याभ्यन्तर
करणानि विकीर्णान = व्यापीनि भूत्वा वृत्तिलाभं कुर्वन्तीति एवं-
विधविकरणभावोपपन्ना योगिन एव स्थाने स्थाने विदेहा इत्युक्ताः ।.
( द्र० यो० वा० पा० ३ सु० ४८ ) ।
 
विकल्पः, विकल्प
शब्दज्ञानमाहात्म्यनिबन्धनो वस्तुशून्थत्वेऽपि जायमानो.
यः प्रत्ययविशेषः स विकल्पो वृत्तिविशेषः । सन प्रमाणान्तर्गतो.
वस्तुशून्यत्वात्, न वा विपर्ययान्तर्गंतो व्यवहाराविसंवादात् । यथा
चैतन्यं पुरुषस्य धर्मं इति । अत्र यद्यपि चैतन्यं पुरुषस्य स्वरूपमेव
तथापि भेदेन षष्ठीब्यपदेशो विकल्पात् इति । ( द्र० यो० मा०
त० वॅ० पा० १ सू० ९ ) ।