This page has been fully proofread once and needs a second look.

योगकाश ।
 
लक्षणपरिणामः
 
, लक्षणपरिणाम
लक्षणानि त्रीणि अनागतलक्षणं, वर्तमानलक्षणम-

तीतलक्षणञ्च । तत्र मृद्धर्मो घटादिर्यदा अनागतलक्षणं हित्वा

वर्तमानलक्षणं प्राप्नोति, यदा वा वर्तमानलक्षणं हित्वाऽतीतलक्षणं

प्राप्नोति तदायं लक्षणपरिणाम इत्युच्यते । (द्र० यो० मा० पा० ३

सू० १३ ) ।
 

 
लययोगः, लययोग
संप्रज्ञातयोग एव लययोगः । ( द्र० यो० चि० अ० १

पृ० ११ ) ।