This page has not been fully proofread.

योगकाश ।
 
लक्षणपरिणामः
 
– लक्षणानि त्रीणि अनागतलक्षणं, वर्तमानलक्षणम-
तीतलक्षणञ्च । तत्र मृद्धर्मो घटादिर्यदा अनागतलक्षणं हित्वा
वर्तमानलक्षणं प्राप्नोति, यदा वा वर्तमानलक्षणं हित्वाऽतीतलक्षणं
प्राप्नोति तदायं लक्षणपरिणाम इत्युच्यते । (द्र० यो० मा० पा० ३
सू० १३ ) ।
 
लययोगः – संप्रज्ञातयोग एव लययोगः । ( द्र० यो० चि० अ० १
पृ० ११ ) ।