This page has been fully proofread once and needs a second look.

रागः, राग
सुखाभिज्ञस्य सुखानुस्मृतिपूर्व: सुखे तत्साधने वा यो गर्ध:,
तृष्णा, लोभः स रागः तथा च सूत्रम्-सुखानुशयी रागः" इति ।
( द्र० यो० मा० पा० २ सु० ७ ) ।
 
राजयोगः, राजयोग
निर्वीजसमाधिरेव राजयोंगः । ( द्र० यो० चि० अ० १
पृ० ११ ) । राजयोगः, समाधिः, उन्मनी, मनोन्मनी, अमरत्वं,
लयः, तत्त्वं, शून्याशून्यं, परंपदम्, अमनस्कम्, अद्वैतम्, निरालम्वं,
निरञ्जनम्, जीवन्मुक्तिः, सहजा, तुर्या इति पर्यायाः । ( द्र० ह०
यो० प्र० उप० ४ श्लो० ३-४ ) ।
 
रेचक:, रेचक
यत्र कोष्ठ्यो वायुर्विरेच्य बहिर्धार्यते, स रेचकः प्राणायामः ।.
( द्र० त० वै० पा० २ सू० ४९ ) ।