This page has been fully proofread once and needs a second look.

क्शेशकर्मविघटकत्वे सति चित्तवृत्तिनिरोधत्वं योगत्वमिति योग-
मञ्जरीकारः। स्वरूपावस्थितिहेतुत्वे सति चित्तवृत्तिनिरोधो योग।
इति विज्ञानभिक्षुः । ( ( द्र० यो० वा० पा० १ सू० ३ तथा यो०
सा० सं० ) ।
 
योगप्रदीपः, योगप्रदीप
सम्प्रज्ञातः । विवेकजं ज्ञानं परिपूर्ण सूर्यतुल्यम् ।
अतो यथा सूर्यस्यांश: प्रदीपस्तथा संप्रज्ञातोऽपि विवेकजज्ञानस्य
सूर्यस्यांश इति योगप्रदीपः स उच्यते । ( द्र० यो० मा० त० वै०
पा० ३ सू० ५४ ) ।
 
योगाङ्गानि, योगाङ्ग
यम नियमासनप्राणायामप्रत्याहारधारणाघ्यानसमाधयोऽ-
ष्टी योगाङ्गानि यमादयश्चैकैकशः पृथक्-पृथक् निरूपिता इति
तत एव द्रुष्टव्याः
 
योगानुशासनम् , योगानुशासन
अनुशिष्यतेऽनेनेति व्युत्पत्त्याऽनुशासनं शास्त्रम् ।
तथा च अथ योगानुशासनम्" इति सूत्रे योगानुशासनम् = योगप्रति-
पादकं शास्त्रमित्यर्थः । ( द्र० त० वै० पा० १ सू० १ ) ।
 
योगारूढः, योगारूढ
आरूढयोग, आरूढयोगवृक्षः, योगारूढश्चेत्यनर्थान्तरम् ।
अतो द्रष्टव्य । आरूढयोगशब्द विचारः ।