This page has been fully proofread once and needs a second look.

योगकोशः
 
यमाः-- , यम
अहिंसा- सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः । तत्र अहिंसा सर्वथा

सर्वदा सर्वभूतानामनभिद्रोहः ।
 
८२
 

सत्यम्-यथार्थै वाङ्मनसे । यथादृष्टं यथानुमितं यथा श्रुतं तथा वाङ्-

मनश्चेति । सत्या वाक् सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय ।

यदि चाभिधीयमाना परोपघातपरैव स्थान्न तत् सत्यं भवेत् पापमेव

भवेत् । तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् ।
 

अस्तेयम् – स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणम् । तत्-

प्रतिषेधः पुनरस्पृहारूपमस्तेयम् ।
 

ब्रह्मचर्यम् – गुप्तेन्द्रियस्योपस्थस्य संयमः ।
 

अपरिग्रहः - विषयाणा मर्जन रक्षणक्षयहिंसादोषदर्शनादस्वीकरणम् ।

( द्र० यो० भा० पा० २ सू० ३० ) ।
 

 
योगशास्त्रस्य चतुर्व्यू हत्वम् , योगशास्त्रस्य चतुर्व्यूहत्व
यथा चिकित्साशास्त्रं चतुव्हम् रोगो,

रोगहेतुरारोग्यं भैषज्यमिति । एवमिदमपि शास्त्रं चतुर्व्यूहमेव ।

तद्यथा-संसारः, संसारहेतुः, मोक्षो मोक्षोपाय इति । तत्र दुःखबहुलः

संसारो हेय। । प्रधानपुरूषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी

निवृत्तिनम् । हानोपायः सम्यग्दर्शनम् इति । ( द्र० यो० मा०

पा० २ सू० १५ ) ।
 

 
योगः, योग
चित्तवृतिनिरोधरूपो द्विविधोऽपि योगः, संप्रज्ञातोऽसंप्रज्ञात-

श्चेति । यस्मिन्नवस्थाविशेषे चित्तस्य प्रमाणादिवृत्तयो निरुध्यन्ते,

सोऽवस्थाविशेषो योगः । स चावस्थाविशेषः सम्प्रज्ञातोऽ-

संप्रज्ञातश्चोभावपि । योगलक्षणे सर्वशब्दाग्रहणात् सम्प्रज्ञाते

सात्त्विकचित्तवृत्तेरनिरोघेऽपि न लक्षणाव्याप्तिस्तत्र । ( द्र० यो०

मा० त० वं० पा० १ सु० २ ) ।
 

मन्त्रयोग-लययोग- राजयोग-हठयोगेषु च योगशब्दस्य प्रयोगस्तु तेषां

साक्षात्परम्परयोक्तयोगसाधनत्वाद् भवति । ( द्र० यो० चि० अ० १

पृ० ११ ) ।