साङ्ख्य-योग-कोशः /162
This page has not been fully proofread.
योगकोशः
यमाः-- अहिंसा- सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः । तत्र अहिंसा सर्वथा
सर्वदा सर्वभूतानामनभिद्रोहः ।
८२
सत्यम्-यथार्थै वाङ्मनसे । यथादृष्टं यथानुमितं यथा श्रुतं तथा वाङ्-
मनश्चेति । सत्या वाक् सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय ।
यदि चाभिधीयमाना परोपघातपरैव स्थान्न तत् सत्यं भवेत् पापमेव
भवेत् । तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् ।
अस्तेयम् – स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणम् । तत्-
प्रतिषेधः पुनरस्पृहारूपमस्तेयम् ।
ब्रह्मचर्यम् – गुप्तेन्द्रियस्योपस्थस्य संयमः ।
अपरिग्रहः - विषयाणा मर्जन रक्षणक्षयहिंसादोषदर्शनादस्वीकरणम् ।
( द्र० यो० भा० पा० २ सू० ३० ) ।
योगशास्त्रस्य चतुव्यू हत्वम् – यथा चिकित्साशास्त्रं चतुव्हम् रोगो,
रोगहेतुरारोग्यं भैषज्यमिति । एवमिदमपि शास्त्रं चतुर्व्यूहमेव ।
तद्यथा-संसारः, संसारहेतुः, मोक्षो मोक्षोपाय इति । तत्र दुःखबहुलः
संसारो हेय। । प्रधानपुरूषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी
निवृत्तिनम् । हानोपायः सम्यग्दर्शनम् इति । ( द्र० यो० मा०
पा० २ सू० १५ ) ।
योगः– चित्तवृतिनिरोधरूपो द्विविधोऽपि योगः, संप्रज्ञातोऽसंप्रज्ञात-
श्चेति । यस्मिन्नवस्थाविशेषे चित्तस्य प्रमाणादिवृत्तयो निरुध्यन्ते,
सोऽवस्थाविशेषो योगः । स चावस्थाविशेषः सम्प्रज्ञातोऽ-
संप्रज्ञातश्चोभावपि । योगलक्षणे सर्वशब्दाग्रहणात् सम्प्रज्ञाते
सात्त्विकचित्तवृत्तेरनिरोघेऽपि न लक्षणाव्याप्तिस्तत्र । ( द्र० यो०
मा० त० वं० पा० १ सु० २ ) ।
मन्त्रयोग-लययोग- राजयोग-हठयोगेषु च योगशब्दस्य प्रयोगस्तु तेषां
साक्षात्परम्परयोक्तयोगसाधनत्वाद् भवति । ( द्र० यो० चि० अ० १
पृ० ११ ) ।