साङ्ख्य-योग-कोशः /160
This page has been fully proofread once and needs a second look.
मूढम् , मूढ
तमः समुदेकान्निद्रवृत्तिमच्चित्तं मूढमुच्यते ।
मूलपृथक्त्वाभावः, मूलपृथक्त्वाभाव
जगन्मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्ति ।
कार्याणि कामं परस्परं भिद्यन्ते, सकलकायंमूलभूतं प्रधानन्तु अभिन्न-
मेवास्ति । अतएव योगसूत्रम् "कृतार्थं प्रति नष्टमप्यनष्टं तदन्य-
साधारणत्वात्" इति पा० २ सू० २२ ।
तेन देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्च वस्तूनामन्यत्वे हेतुः ।
अतः परमाणूनां परस्परभेदसावनाय वैशेषिकैरङ्गीकृतोऽन्त्यो विशेष-
पदार्थो नाङ्गीकरणीयः, तेष्वपि देशादिभेदरेवान्यत्वस्यावधारणात् ।
यत्रापि योगिनो मुक्तांस्तुल्यजातिदेशकालान् व्यवधिरहितान्-
परस्परतो भेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते तत्रापि भेदप्रतिपत्तये
न विशेषास्तेषु मुक्तात्मसु स्वीकरणीयाः, तेषां मुक्तौ ये क्षणभेदास्तैरेव
योगिभिर्मुक्तात्मनां भेदावगमात् । ( द्र० यो० भा० त० वै०
पा० ३ सू० ५३ ) ।
विज्ञा भिक्षुस्तु– मूलेषु नित्यद्रव्येषु परमाण्वादिषु पृथक्त्वम् =
विशेषपदार्थो नास्तीत्यर्थमाह ।
मृदुसंवेगः, मृदुसंवेग
मृवाद्युपायवतौ योगिनः संवेगः = वैराग्यं यदा मृदुः
भवति, तदा स योगो मृदुसंवेग उच्यते ।
मृदूपायः, मृदूपाय
यस्यासप्रज्ञातयोगिनः श्रद्धाद्युपाया: मृदव: सस्ति, न
मध्मा नाघिमात्राः, स मृदूपाय इत्युच्यते ।
मैत्री, मैत्री
सुखितेषु जनेषु मंत्रीं = सौहार्दम् भावयतश्चित्तं प्रसादमधि-
गच्छति, ततः स्थितिञ्च लभते ।
मोक्षत्रैविध्यम् , मोक्षत्रैविध्य
"आद्यस्तु मोक्षो ज्ञानेन, द्वितींयो रागसंक्षयात् ।
कृच्छ्रक्षयात्तृतीयस्तु, व्याख्यातं मोक्षलक्षणम् ॥
इति वचनात् । ( द्र० यो० मा० पा० १ सू० २४ )