This page has not been fully proofread.

(viii )
 
काशीहिन्दू विश्वविद्यालये प्राच्यविद्याधर्मंविज्ञानसंकायप्रमुखाणां
ज्योतिषदिवाकराणां पण्डितश्रीराजमोहन-
उपाध्याय [ ज्योतिषशास्त्राचार्य,
एम. ए., पी. एच. डी. ]
महोदयानाम्-
दर्शनविभागाध्यक्षेण पण्डितश्री केदारनाथ त्रिपाठिना विरचितं सांख्य-
योगकोशांख्यमभिनवं पुस्तकं मया सभ्यगवलोकितम् । अद्यावधि सांख्य-
योगशास्त्रयोः कोशस्य निर्माणं न केनापि विदुषा सम्पादितम् ।
 
गतसत्रारम्भे मया निवेदितं यत् सांख्ययोगयोः भवद्भिः किमपि
एतादृशं नूतनं कार्यं करणीयं येनास्य संकायस्य भवतां च गौरवं वर्धेत ।
अतिस्वल्पेनैव कालेन अतिश्रमेण प्रतिभासम्पन्नैरेभिर्महाभागैः यदिदं कार्यं
सम्पादितं तेनेदं स्पष्टं प्रतिभाति यदस्माकं संकाये एतादृशाः सुमहान्तः
पण्डिताः सन्ति येषां करामलकवत् शास्त्रज्ञानमस्ति । इदन्तु निश्चप्रचं यत्
प्रौढज्ञानमन्तरा न कोऽपि एतादृशं ग्रन्थरत्नमतिस्वल्पेन कालेन निर्मातुं
क्षमो भवितुमर्हति । एमिरन्येऽपि दर्शनग्रन्थाः निर्मिताः सन्ति प्रकाशिता-
प्रकाशिताः । मन्ये, अग्रेऽपि स्वकोयं गवेषणात्मकं सांख्ययोगशास्त्रयो
कार्यमेते महानुभावाः विधास्यन्तोति शम् ।
 
राजमोहन उपाध्यायः
 
२३१८७४