This page has been fully proofread once and needs a second look.

मध्योपाय:, मध्योपाय
यस्य योगिनः श्रद्धाद्युपाया न मृदवो नाधिमात्रा भवन्ति,
स योगो मध्योपाय इत्युच्यते ( द्र० यो० मा० पा० १ सू० २१ ) ।
 
मनोजवित्वम् , मनोजवित्व
कायस्यानुत्तमो गतिलाभो मनोजवित्वम् । तच्च
पञ्चेन्द्रियजयात् सिध्यति । ( द्र० यो० भा० त० वै० पा० ३
सू० ४८ ) ।
 
मनोवहनाडी, मनोवहनाडी
उदरोरसोर्मंध्ये यत् पद्मं तिष्ठत्यधोमुखमष्टदलं,
तस्मिन् मध्ये सूर्यमण्डलमकारो जागरितस्थानम् तस्योपरि चन्द्र
मण्डलमुकार: स्वप्नस्थानन, तस्योपरि वह्निमण्डलं मकार:
सुषुतिस्थानम्, तदुपरि परं ब्रह्म व्योभात्मकं नादस्तुरीयस्थान-
मस्ति, यमर्धमात्रमुदाहरन्ति योगिनः, तत्कणिकायां विष्वग्व्यापि-
सहस्र शाखाया मनोवहनाड्या मूलं तिष्ठति । तस्याश्चालावुलति-
काया इव शाखाभूता सुषुम्नादिनाड्यस्ति । सैव मनोवहा नाडी-
चित्तस्थानम् । ( द्र० यो० वा० पा० १ सू० ३६ ) ।
 
मनो विभु, मनो विभु
"बुद्धिसत्त्वं हि भास्वरमाकाशकल्पम्" इति वदता माष्य-
कारेण मनसस्तेजोवत् स्वपरप्रकाशकत्वमाकाशवद् विभुत्वञ्च
सिद्धान्तितम् । ( द्र० यो० वा० पा० १ सू० ३६ ) ।
 
महाप्रलयः, महाप्रलय
यत्र सत्यलावसहितं समस्तं जगदस्तमेति, ब्रह्मणोऽपि
निधनं जायते, स महाप्रलयः । ( द्र० यो० मा० त० वै० पा० १
सू० २५ ) ।
 
मुदिता , मुदिता
पुण्यशीलेपु प्राणिषु कृता मुदिता ( हर्षम् ) स्वभावनयऽसूया-
कालुष्यं चेतसो निवतंयति ।
 
मुद्रादशकम् , मुद्रादशक
महामुद्रा महाबन्धो महावेधश्च खेचरी ।
उड्यानं मूलबन्धश्च बन्धो जालन्धरामिधः ॥
करणी विपरीताख्या वज्रोली शक्तिचालनम् ।
इदं हि मुद्रादशकं जरामरणनाशनम् ॥
( द्र० ६०
१० यो० प्र० उप० ३ श्लो० ६-७ ) ।