This page has been fully proofread once and needs a second look.

मधुप्रतीका , मधुप्रतीका
संप्रज्ञातस्य वितर्कानुगतादिचतुर्भेदेषु यो द्वितीयो भेदो
विचारानुगत इति स एव मधुप्रतीकानाम्नी भूमिरिति । ( द्र० पा०
सु० वृ० पा० १ सू० २ ) ।
तृतोययोगिनः प्रज्ञाज्योतिषो मधुप्रतीका भूमिरिति सर्वदर्शनसंग्रह-
कारः । तस्यामेव भूमौ मनोजवित्वादिसिद्धयः । यथा मधुन एक-
देशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त इति
मधुप्रतीका: उच्यन्ते ।
 
मधुमती, मधुमती
वितर्कानुगतस्य सम्प्रज्ञातयोगस्यैव अपरा संज्ञा मधुमतीति ।
तत्र ऋतम्भरा प्रज्ञैव मधु, मोदकारणत्वात् तद्वती मधुमती । (द्र ०
यो० वा० पा० ३ तू० ५४ तथा पा० सू० वृ० पा० १ सू० २ ) ।
अत्र विवरणकारः – अत्र मधुमतीं भूमि साक्षात्कुर्वसो ब्राह्मणस्य
स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः स्थानरुप निमन्त्रयन्ते "भो
इहास्यताम् इह रम्यताम्, कमनीयोऽयं भोगः" इत्यादि । एव-
भिधीयमानः सङ्गदोषान् भावयेत् । सङ्गमकृत्वा स्मयमपि न
कुर्यात् "एवमहं देवानामपि प्रार्थनीय" इति ।
सर्वदर्शनसंग्रहे चोक्तम् – अभ्यासवैराग्यादिवशात् अपास्तरजस्त-
मोलेशसुख प्रकाशमयतत्त्वभावनया ऋतंभरप्रज्ञाख्या समाधिसिद्धिर्जायते
इति ऋतंभरप्रज्ञयोग्येव द्वितीयो मधुभूमिकसंज्ञक उच्यते, तस्यैव
भूमिर्मधुमती नाम्नी प्रसिद्धेति ।
 
मध्यतीव्रः, मध्यतीव्र - यस्योपायप्रत्ययस्य योगिनः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञारूपा
उपाया अधिमात्रा भवन्ति तथा संवेगो ( वैराग्यच ) मध्यतीव्रो
भवति, तस्यासन्नतरः समाधिलाभस्तत्फलं च भवत इति । ( द्र०
यो० भा० पा० १ सू० २२ ) ।
 
मध्यसंवेगः, मध्यसंवेग
यस्योपायप्रत्ययस्य योगिनो वैराग्यं न मृदु भवति, नापि
तीव्रं भवति, स मध्यसंवेग इत्युच्यते । ( द्र० यो० भा० पा० १
सू० २१ ) ।