This page has been fully proofread once and needs a second look.

भोगः प्रत्ययाविशेषः, भोगः प्रत्ययाविशेष
अयमर्थो भोगपदार्थविवेचनेनंव गतार्थः ।
तथाप्ययमर्थः - शान्तघोरमूढरूपाया बुद्धेश्चंतन्य प्रतिबिम्बोद्ग्राहेण
चैतन्यस्य शान्ताद्याकाराव्यारोपश्चन्द्रमस इव स्वच्छसलिलप्रति-
विम्बितस्य तत्कम्पात् कम्पनारोपः, भोगः । ( द्र० यो० मा० त०
वै० पा० ३ सू० ३५ ) ।
विज्ञानभिक्षुस्तु-प्रत्ययोरविशेषः प्रत्ययाविशेष इति विगृह्य प्रत्यययो--
विविच्याग्रहणं भोगः इत्याह । तत्र बुद्धेः प्रत्ययः सुखादिमतो
विषयाह्याकारचित्तवृत्तिः, पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बा-
वच्छिन्नचैतन्यांशः सुखाद्यात्मक शब्दाद्यनुभवनामा । ( द्र० यो० वाo
पा० ३ सू० ३५ ) ।
 
भोगापवर्गौ मुख्यपुरुषार्थौ, भोगापवर्गौ मुख्यपुरुषार्थौ
यद्यपि धर्मार्थकाममोक्षाश्चत्वारः पुरु-
पार्या: शास्त्रेषु प्रसिद्धास्तथापि धर्मार्थकामानां भोगेऽन्तर्भूतत्वात्
भोगापवर्गों एवं मुख्यी पुरुषार्थी ।