This page has been fully proofread once and needs a second look.

योगकोशः
 
भोगः प्रत्ययाविशेषः - , भोगः प्रत्ययाविशेष
अयमर्थो भोगपदार्थविवेचनेनंव गतार्थः ।

तथाप्ययमर्थः - शान्तघोरमूढरूपाया बुद्धेश्चंतन्य प्रतिबिम्बोद्ग्राहेण

चैतन्यस्य शान्ताद्याकाराव्यारोपश्चन्द्रमस इव स्वच्छसलिलप्रति-

विम्बितस्य तत्कम्पात् कम्पनारोपः, भोगः । ( द्र० यो० मा० त०

वै
० पा० ३ सू० ३५ ) ।
 
७७.
 

विज्ञानभिक्षुस्तु-प्रत्ययोरविशेषः प्रत्ययाविशेष इति विगृह्य प्रत्यययो--

विविच्याग्रहणं भोगः इत्याह । तत्र बुद्धेः प्रत्ययः सुखादिमतो

विषयाह्याकारचित्तवृत्तिः, पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बा-

वच्छिन्नचैतन्यांशः सुखाद्यात्मक शब्दाद्यनुभवनामा । ( द्र० यो० वाo

पा० ३ सू० ३५ ) ।
 

 
भोगापवर्गोंगौ मुख्यपुरुषार्थी – थौ, भोगापवर्गौ मुख्यपुरुषार्थ
यद्यपि धर्मार्थकाममोक्षाश्चत्वारः पुरु-

पार्या: शास्त्रेषु प्रसिद्धास्तथापि धर्मार्थकामानां भोगेऽन्तर्भूतत्वात्

भोगापवर्गों एवं मुख्यी पुरुषार्थी ।