साङ्ख्य-योग-कोशः /156
This page has been fully proofread once and needs a second look.
पदे वर्तन्त इति सत्यपि साधिकारत्वे न ते लोकमध्ये न्यस्ताः
सन्ति । ये हि बुद्धिवृत्तिमग्तः सन्ति त एव दर्शितविषया लोकयात्रां
वहन्तो लोकेषु वर्तन्ते । तदेतदासत्यलोकमाचावीचेर्योगिना साक्षात्कर-
णीयं सूर्यद्वारे सुषुम्नायां नाड्यां संयमात् । यदि नैतावतापि
तत्साक्षात्कारो भवति तदा सुषुम्नाया अन्यत्रापि योगोपाध्यायो-
पदिष्टेषु तावत् संयमः करणीयो यावदिदं सर्वं जगद् दृष्टं भवेदिति ।
( द्र० यो० मा० त० वै० पा० ३ सू० २६ ) ।
भूतजयः, भूतजय
पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषा धर्माः
स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति, भूतानि अस्य
वश्यानि भवन्ति । तत्र भूतानां परिदृश्यमानं विशिष्टाकारवद्रूपं
स्थूलम् । स्वरूपञ्चैषां यथाक्रमं कार्यं गन्ध-स्नेहोष्णता-प्रेरणावकाश-
दानलक्षणम् । सूक्ष्मञ्च यथाक्रमं भूतानां कारणभेदेन व्यवस्थितानि
गन्धादिपञ्चतन्मात्राणि । अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूप-
तया सर्वत्रैवान्वयित्वेन समुपलभ्यमानाः । अर्थवत्त्वं तेषु एव गुणेषु
भोगापवर्गसम्पादनरूपा शक्तिः । तदेवं भूतेषु पञ्चसु उक्तवर्मलक्षणा-
वस्था भिन्नेषु प्रत्यवस्थं संयमं कुवँन् योगी भूतजयी भवतीति ।
( द्र० भो० वृ० पा० ३ सू० ४४ ) ।
भेदोऽन्योन्याभावरूपोऽभेदश्चाविभागरूपः, भेदोऽन्योन्याभावरूपोऽभेदश्चाविभागरूप
जीवब्रह्मणोः परस्परं
भेदोऽपि वर्ततेऽन्योन्यामावलक्षणः । अभेदोऽपि वर्तते । किन्तु अय-
मभेदो नाखण्डत्वलक्षणः अपितु अविभागलक्षण एवेति विज्ञानभिक्षुः ।
( द्र० यो० वा० पा० १ सू० २६ ) ।
भाग:, भाग
इष्टानिष्टगुणस्वरूप वधारणमविभागापन्नं मोगः । इष्टानिष्टे
सुखदुःखे, ते च त्रिगुणात्मिकाया बुद्धे: स्वरूपे, तयोरविभागा-
पन्नतयाऽवधारणं भोग इत्यर्थः । बुद्धिगततयाऽवधारणे तु न भोगः ।
भोगश्च यद्यपि सुखाद्यात्मकशव्दाद्याकारा वृत्तिचित्तस्य धर्मस्तथापि
चित्तचैतन्योरभेदसमारोपात् वृत्तिसारूप्यात् पुरुपस्येत्युच्यते । ( द्र०
यो० मा० त० वे० पा० १ सू० ४ ) ।