This page has been fully proofread once and needs a second look.

योगकोशः
 
७५
 
1
 
भवप्रत्ययः, भवप्रत्यय – असम्प्रज्ञातसमाधेरेको भेदः । भवन्ति जायन्तेऽस्यां

जन्तव इति भवोऽविद्या । सा च भूतेन्द्रियेषु विकारेषु प्रकृतिषु

वाऽव्यक्तमहदहङ्कारपञ्चतन्त्रात्रेषु अनात्मसु आत्मख्यातिस्तौष्टि--

कानां वैराग्यसम्पन्नानाम् । एवंविधो भवः । श्रविद्या ) प्रत्ययः

कारणं यस्य निरोधसमाधे: ( असम्प्रज्ञातस्य ) स भवप्रत्ययः । स

च भवत्रत्ययोऽसम्प्रज्ञातसमाधिविदेहानां प्रकृतिलयानाञ्च भवतीति ।

( द्र० यो० मा० त० वै० पा० १ सू० १९ )।
 
P
 

 
भवसङ्क्रमः - , भवसङ्क्रम
देहाद् देहान्तरसञ्चारारव्यः श्लिष्टपर्वा अव्यवधानेन

प्रवर्तमान: संसारो भवसङ्क्रम इत्युच्यते । यस्याविच्छेदात् जनित्वा

म्रियते, मृत्वा च जायते जन्तुरिति । ( द्र० यो० वा० पा० १

सू० १६ ) ।
 

 
भुवनज्ञानम् , भुवनज्ञान
सूर्यद्वारे = सुषुम्नायां नाड्याम् संयमेन भुवनज्ञानं

जायते योगिनः । बुद्धिसत्त्वं हि स्वभावत एव विश्वप्रकाशनसम

तमोमलावृतं यत्रैव रजसोद्घाट्यते तदेव प्रकाशयति । किन्तु सूर्य-

द्वारसंयमोद्घाटितं बुद्धिसत्त्वं भुवनमेव समस्तं प्रकाशयतीति ।

संक्षेपेण सप्तलोकात्मकं भुवनम् । तत्रावीचेः प्रभृति मेरुपृष्ठं यावत्

भूलोकः । मेरुपृष्ठादारभ्याध्रुवाद ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः..

( भुवर्लोकः ) । ततः परः स्वर्लोकः पश्वविधः । पञ्चविधं स्वर्लोक-

मेकं मत्वा लोकत्रयीति प्रसिद्धिः । पञ्चविधं स्वर्लोकं पञ्च मत्वा

पूर्वलोकद्वययोगेन सप्तलोका इति प्रसिद्धिः । तेषु पञ्चविधस्वर्लोकेषु

प्रथमो माहेन्द्रो लोकः सप्तलोकेषु तृतीयो लोकः । चतुर्थः प्राजापत्यो

महर्लोकः । ब्राह्मस्त्रिविधः । तत्र जनलोकः पञ्चमः । तपोलोकां

षष्ठः । सत्यलोकः सप्तमः । इत्येवं सप्तलोकात्मकं भुवनम् । त एते

सप्तलोका अवान्तरं चतुर्दंशधा भिन्नाः सर्वे एवादिपुरुषस्य ब्रह्मणो

लोकाः, ब्रह्मणो हिरण्यगर्भस्य लिङ्गदेहेन सर्वलोकव्यापनात् । एषु.

लोकेषु निवासिनो भिन्ना भिन्नाः सन्ति । विदेह प्रकृतिलयास्तु मोक्ष--