साङ्ख्य-योग-कोशः /155
This page has not been fully proofread.
योगकोशः
७५
1
भवप्रत्ययः – असम्प्रज्ञातसमाधेरेको भेदः । भवन्ति जायन्तेऽस्यां
जन्तव इति भवोऽविद्या । सा च भूतेन्द्रियेषु विकारेषु प्रकृतिषु
वाऽव्यक्तमहदहङ्कारपञ्चतन्त्रात्रेषु अनात्मसु आत्मख्यातिस्तौष्टि--
कानां वैराग्यसम्पन्नानाम् । एवंविधो भवः । श्रविद्या ) प्रत्ययः
कारणं यस्य निरोधसमाधे: ( असम्प्रज्ञातस्य ) स भवप्रत्ययः । स
च भवत्रत्ययोऽसम्प्रज्ञातसमाधिविदेहानां प्रकृतिलयानाञ्च भवतीति ।
( द्र० यो० मा० त० वै० पा० १ सू० १९ )।
P
भवसङ्क्रमः - देहाद् देहान्तरसञ्चारारव्यः श्लिष्टपर्वा अव्यवधानेन
प्रवर्तमान: संसारो भवसङ्क्रम इत्युच्यते । यस्याविच्छेदात् जनित्वा
म्रियते, मृत्वा च जायते जन्तुरिति । ( द्र० यो० वा० पा० १
सू० १६ ) ।
भुवनज्ञानम् – सूर्यद्वारे = सुषुम्नायां नाड्याम् संयमेन भुवनज्ञानं
जायते योगिनः । बुद्धिसत्त्वं हि स्वभावत एव विश्वप्रकाशनसम
तमोमलावृतं यत्रैव रजसोद्घाट्यते तदेव प्रकाशयति । किन्तु सूर्य-
द्वारसंयमोद्घाटितं बुद्धिसत्त्वं भुवनमेव समस्तं प्रकाशयतीति ।
संक्षेपेण सप्तलोकात्मकं भुवनम् । तत्रावीचेः प्रभृति मेरुपृष्ठं यावत्
भूलोकः । मेरुपृष्ठादारभ्याध्रुवाद ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः..
( भुवर्लोकः ) । ततः परः स्वर्लोकः पश्वविधः । पञ्चविधं स्वर्लोक-
मेकं मत्वा लोकत्रयीति प्रसिद्धिः । पञ्चविधं स्वर्लोकं पञ्च मत्वा
पूर्वलोकद्वययोगेन सप्तलोका इति प्रसिद्धिः । तेषु पञ्चविधस्वर्लोकेषु
प्रथमो माहेन्द्रो लोकः सप्तलोकेषु तृतीयो लोकः । चतुर्थः प्राजापत्यो
महर्लोकः । ब्राह्मस्त्रिविधः । तत्र जनलोकः पञ्चमः । तपोलोकां
षष्ठः । सत्यलोकः सप्तमः । इत्येवं सप्तलोकात्मकं भुवनम् । त एते
सप्तलोका अवान्तरं चतुर्दंशधा भिन्नाः सर्वे एवादिपुरुषस्य ब्रह्मणो
लोकाः, ब्रह्मणो हिरण्यगर्भस्य लिङ्गदेहेन सर्वलोकव्यापनात् । एषु.
लोकेषु निवासिनो भिन्ना भिन्नाः सन्ति । विदेह प्रकृतिलयास्तु मोक्ष--