This page has been fully proofread once and needs a second look.

७४
 
योगकोश ।
 
सूर्यमण्डलं जागारितस्थानमकारः, तस्योपरि चन्द्रमण्डल मुकारः

स्वप्नस्थानम्, तस्योपरि वह्निमण्डलं मकार: सुषुप्तिस्थानम् तस्यो-

परि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्म-

वादिनः । तत्र कर्णिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी !

ततोऽप्यूर्ध्वं प्रवत्ता सुषुम्ना नाडी भवति । ( द्र० यो० भा० त० वै०

पा० १ सू० ३६ )

)
 

 
ब्रह्मनादम् , ब्रह्मनाद– नादात्मकं ब्रह्मैव ब्रह्मनादम्, तदेवार्धमात्रमुदाहरन्ति

ब्रह्मवादिनः । अत्र ब्रह्मनाडी शब्दकोशोऽवधानीयः । ( द्र० यो०

वा० पा० १ सू० ३६ ) ।
 
10