This page has been fully proofread once and needs a second look.

स्वार्थः । यतः सर्वं पुरुषाय कल्पते, पुरुषस्तु न कस्मैचिदिति । ( द्र०
यो० मा० त० वै० पा० २ सू० २० )।
 
बुद्धेः प्रतिसंवेदी पुरुषः, बुद्धेः प्रतिसंवेदी पुरुष
यं विषयं बुद्धिः संवेत्ति तं पुरुषोऽपि
तथैव संवेत्तीति बुद्धेः प्रतिसंवेदी पुरुष इत्युच्यते । अयमाशयः -
न हि बोधः पुरुषगतो जन्यते अपि तु चैतन्यमेव अर्थाकारया बुद्धि-
वृत्त्या तदाकारतामापद्यमानं वोधात्मकं फलं भवति । तच्च तथा-
भूतं बुद्धेर विशिष्टं बुद्धिसमानाकारं भवतीति इदमेव पुरुषस्य बुद्धि-
प्रतिसंवेदित्वम् इति वाचस्पतिमिश्रा: । ( द्र० यो० मा० त० वै०
पा० १ सू० ७ ) ।
विज्ञान भिक्षुस्त्वाह – यद्यपि विषयाकारतैव विषयग्रहणं चित्तस्थले
दृष्टं, पुरुषस्तु कूटस्थो न विषयाकारतां भजते, अतः कथं पुरुष-
श्चित्तवृत्तिसाक्षी स्यात् ? कथं वाऽविशिष्टः पौरुषेयो वोध ? इत्या-
शङ्का जागति । तथापि संवेदिन्या बुद्धेः अतिसंवेदि = तत्समानाकार:
पुरुषः इति चितेः स्वयमाकाराभावेऽपि प्रतिबिम्बवशाद् वृत्त्याका-
रापत्त्या वृत्तिबोध इति पुरुषो बुद्धेः प्रतिसंवेदो कथ्यते । ( द्र०
यो० दा० पा० १ सू० ७ ) ।
 
ब्रह्मणि सर्वजीवानामविभागलक्षणाभेदो न त्वखण्डत्वम् , ब्रह्मणि सर्वजीवानामविभागलक्षणाभेदो न त्वखण्डत्व
न्याया-
नुगृहोतेः बलवद्भिरग्नि विस्फुलिङ्गा दिसांश दृष्टान्तैः विरोधात् आका-
शसूर्यादिदृष्टान्ता जोवब्रह्मगोरखण्डतापरा न भवन्ति, किन्तु ब्रह्मणि
सर्वजीवानामविभागलक्षणाभेदस्य सर्वंकालस्थायितया पारमार्थिकत्वे-
ऽपि यद् किञ्चिदवच्छेदन फेनबुद्बुदादिवत् अतिभङ्गुरस्य विभाग-
लक्षणभेदस्यापारमार्थिकस्योपाधिकत्वमात्रं प्रतिपादयन्तीति ब्रह्मणि
जोवानां नाखण्डत्वं किन्स्व विभागलक्षणाभेद एवेति विज्ञानभिक्षुः ।
( द्र० यो० वा० पा० १ सू० २४ ) ।
 
ब्रह्मनाडी, ब्रह्मनाडी
उदरोरसोर्मंध्ये यत्पद्ममधोमुखं तिष्ठति अष्टदलम्, रेचक-
प्राणायामेन तदूध्वंमुखं कृत्वा तत्र चित्तं धारयन्ति योगिनः । तन्मध्ये