This page has been fully proofread once and needs a second look.

बन्धकोटिद्वयम् , बन्धकोटिद्वय
पूर्वा उत्तरा चेति वन्धस्य कोटिद्वयम् । तत्र यो
मुक्तो जातस्तस्य पूर्वा बन्धकोटिरभूत् किन्तूत्तरा बन्धकोटिर्नास्ति ।
एवं ये प्रकृतिभावनासंस्कृतमनसस्ते देहपातानन्तरमेव प्रकृतिलयता-
मापन्नास्तेषां पूर्वा बन्धकोटिरभूदेव किन्तूत्तराऽपि बन्धकोटि:
संभाव्यत एव । ईश्वरस्य तु सदैव मुक्तत्वात् नास्ति पूर्वा वन्धकोटि-
नपि चोत्तरा बन्धकोटिरिति । ( द्र० यो० मा० त० वै० पा०
१ सु० २४) ।
अत्र भाष्यविवरणकारः – अनारब्धसंसारस्य प्रकृतिलोनस्योतरा
बन्धकोटि: सम्भाव्यते । प्रवृत्तसंसारस्य चाप्रकृतिलीनस्य वद्धजनस्य
साघिकारत्वात् पूर्वोत्तरबन्धकोटी स्तः । मुक्तस्य तु पूर्वां बन्धकोटि-
मुक्तत्वोपपत्तेरेव जायत । बन्धपूर्विका हि मुक्तिरिति । ( द्र० पा०
यो० सू० मा० वि० पा० १ सू० २४ ) ।
 
बन्धनानि, बन्धन
प्रकृतिलयानां प्राकृतो वन्धः, विदेहानां वैकारिको बन्धः,
दिव्या दिव्यविषयभोगभाजां च दक्षिणावन्ध इति । (द्रव्यो० भा०
त० वं० पा० १ सू० २४) तत्राष्टप्रकृतिष्वभिमानरूपः प्रथमः,
शब्दादिविषयरागरूपो द्वितीयः, गृहस्थानां दानाव्ययनादिष्वभिष्व-
ङ्गरूपस्तृतीयः । ( द्र० पा० सू० वृ० पा० १ सू० २४ )
 
बीजम् , बीज
अविद्यादिक्लेशसहितः कर्माशयो जात्यायुभगानां बीजम् ।
( द्र० त० वै० पा० १ सू० २ ) ।
 
बुद्धिसंवित् , बुद्धिसंवित्
सुषुम्नाख्यनाड्यां चित्तस्थानभूतायां चित्तं धारयतो
योगिनश्चित्तसंविदुत्पद्यते, सैव बुद्धिसंवित् । ( द्र० यो० मा० त०
वं० पा० १ सू० ३६ ) ।
 
बुद्धिः परार्था, बुद्धिः परार्था
बुद्धिः खलु क्लेशकर्मवासनादिभिर्विषयेन्द्रियादिभिश्च
संहत्य पुरुषार्थमभिनिवर्तयन्ती परार्था भवति । अत्रानुमानप्रयोगः-
बुद्धिः परार्था संहत्यकारित्वात् शयनासनाभ्यङ्गवत् इति । पुरुषस्तु