This page has been fully proofread once and needs a second look.

प्राणः, प्राण
आ नासिकाग्रात् अ च हृदयादवस्थितो वायुविशेषः प्राणः ।
सच जीवनस्य प्रयत्नविशेषस्य कार्यविधया लक्षकः । प्राणादिनैद
लक्ष्यतेऽयं जीवतीति । यथा वह्निकार्येण धूमेन पर्वतादी वह्निर्लक्ष्यते,
तद्वत् । ( द्र० यो० भा० त० वै० पा० ३ सू० ३९ ) ।
विज्ञानभिक्षुराह – "समस्तेन्द्रियवृत्ति: प्राणादिलक्षणा जोवनम्"
इति भाष्ये समस्तपदं सामान्यवाचकम्, इन्द्रियपदश्च स्थूलसूक्ष्मो-
मयपरतया करणमात्रपरम् । प्राणपदं प्राणनादिवृत्तिपरं, लक्षण-
पदश्च स्वरूपार्थकं न तु लक्ष्यतेऽनेनेति करणव्युत्पत्त्या लक्षणपरम् ।
तथा च करणसामान्यस्य प्राणनादिरूपा वृत्तिरेव जीवनम् । अतो
यथैकैकस्य करणस्याव्यवसायाभिमानसङ्कल्पालोचनात्मिका पृथक्
पृथक् वृत्तिभवति, तथैव करणसामान्यस्यापि प्राणनापाननसमाननो-
दाननव्याननरूपा देहान्तगंतदेशभेदात् पञ्चतयो सामान्या वृत्ति-
भवति । एतावता करणसामान्यमेव देशभेदात् प्राणापानसमानो-
दानव्यानसंज्ञाः लमते इति करणमेव प्राणादयो न तु शरोरोपगृहीत-
मारुतभेदा इति । लिङ्गशरीरस्योवधिः सञ्चारात्पद्यमानेन वायुना
सहाविवेकादेव तु तप्तायः पिण्डवत् प्राणेषु वायुव्यवहारः । तस्मात्
करणसामान्यमेव मुखनासिकागतिराहृदयवृत्तिः प्राण इति । अधि-
कन्तु वार्तिकादव गन्तव्यम् । ( द्र० यो० वा० पा० ३ सू० ३६ ) ।
अनयोः कतरः पक्षो युक्त इति तु सुधीमिरेवावधानीयम् ।
तत्त्वसमाससूत्रेऽपि प्राणापानादयो वायुरूपा एवाभ्युपगताः । तथा च
तत्त्वसमाससूत्रम् – "पञ्च वायवः" सूत्रम् ११ । व्याख्यातञ्चैतत्
तथैव सर्वोपकारिणीटोकाकृताऽपि ।
 
प्राणायामः, प्राणायाम
शास्त्रोक्तरीत्या श्वासप्रश्वासयोः स्वाभाविकगतेः प्रतिषेध ।
प्राणायाम: । प्राणायामे आसनसाहित्यं नितान्तमावश्यकम् । अत
एव "तस्मिन् सति श्वासप्रश्वासयोर्गंतिविच्छेदः प्राणायामः" इति
योगसूत्रे "तस्मिन् सति' इत्युक्तम् । आसने सतीति तस्यार्थ: ।