This page has not been fully proofread.

( vii )
 
विद्यासागर - विद्यावाचस्पति-शास्त्ररत्नाकराणां वाराणसेय-
संस्कृत विश्वविद्यालये भूतपूर्वसाहित्यविभागा-
ध्यक्षाणां पण्डितराजश्रीपट्टाभिराम-
शास्त्रिमहानुभावानाम्-
पण्डितवरैराचार्यश्री केदारनाथ त्रिपाठिम
हेच्छविरचितं साङ्ख्ययोग-
कोशाभिधं ग्रन्थं समग्रमपठम् । साङ्ख्ये योगे च प्रचलितान् शब्दानेकी-
कृत्या कारादिक्रमेण च तान् संयोज्य तेषां मतभेदानुसारेणार्थान् प्रादर्शयन् ।
शास्त्रयोरनयोः प्रविविक्षूणामन्तेवासिनां ज्ञानावातयेऽर्थावबोधाय च
सुमहदानुकूल्यमाचरेदयं ग्रन्थ इति निस्सङ्कोचं ब्रवीमि । त्रिपाठिमहो-
दयानां परिश्रमं सफलयितुमहं वाञ्छामि, यदयं ग्रन्थरिशक्षणसंस्थासु
पाठ्यक्रमे सन्निवेशनीय इति । एतादृशानि कार्याणि बहून्यन्यानि
कुर्वन्तः पण्डितवराः श्रोत्रिपाठिन संस्कृतवाङ्मयं
 
परिवर्द्धयेयुरिति
 
सम्भावयामि ।
 
5
 
पट्टाभिरामशास्त्री
 
१८-८-७४