This page has not been fully proofread.

योगकाश!
 
६६
 
अमाख्यम् फलम् – प्रमाख्यं फलं बुद्धेरेव धर्मः । प्रमायाः वृत्तिजन्य-
तया वृत्त्याख्य कारणसामानाधिकरण्यन बुद्धावेव प्रमारूपकार्यंजनना-
भ्युपगमस्यौचित्यात् । एतदनुसारं चैतन्यमेव हि बुद्धिदर्पणप्रति-
विम्वितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमान फलं, तच्च
चिच्छायाख्यं चित्प्रतिविम्बं बुद्धेरेव धर्मं इति कश्चित् ।
 
तन्न, पौरुषेयशब्दस्य यथाश्रुतार्थत्यागपत्तः, प्रतिबिम्बस्य तुच्छतयाऽ
मानरूपत्वानुपपत्तेश्च । किन्च परस्परप्रतिबिम्बस्य श्रुतिस्मृति-
सिद्धतया चितेरेव वृत्तिप्रतिबिम्बोपहितायाः फलत्वं युक्तम्, ज्ञान-
शब्देनात्मन एव प्रतिपादनात् । अपि च बुद्धेरेव प्रमातृत्वे पुरुषो न
सिध्येत्, अनावश्यकत्वादिति विज्ञानमिक्षुः । ( द्र० यो० वा०
पा० १ सू० ७ ) ।
 
प्रमाणम्- अनधिगततत्त्वबोधः पौरुषेया व्यवहारहेतुः प्रमा तत्करणं
प्रमाणम् । ( द्र० त० वै० पा० १ सू० ७ ) ।
 
प्रवृत्तिः – कर्म क्रिया वा । तथा च क्रियाशीलत्वात् चित्तं रजोगुण-
मुच्यते ।
 
शान्तवाहिता --निरोधसंस्कारात् निरोधसंस्काराभ्यासपाटवापेक्षा
शान्तवाहिता वित्तस्य भवति । प्रशान्तवाहिता च व्युत्थानसंस्कार-
मलरहितनिरोधसंस्कारपरम्परामात्रवाहिता इति वाचस्पतिमिश्राः ।
( द्र० यो० भा० त० वै० पा० ३ सू० १० ) ।
 
W
 
निरोधावस्थचित्तस्य निश्चलनिरोधधारया वहनं प्रशान्तवाहितेति
विज्ञानभिक्षुः ! द्रष्टव्यं तत्रत्यं वार्तिकम् ।
 
प्रश्वासः—
कौष्ठ्यस्य वायोनिःसारणं प्रश्वासः ।
 
प्राकाम्यम् – इच्छानभिघातः । नास्य योगिनो रूपं भूतस्वरूपैर्मूर्त्या-
दिभिरभिहन्यते । भूमौ उन्मज्जति निमज्जति च यथोदके इति ।
( द्र० यो० मा० त० वै० पा० ३ सू० ४५ ) ।