This page has been fully proofread once and needs a second look.

प्रत्याहारः, प्रत्याहार
इन्द्रिय विषयासंप्रयोगकाले इन्द्रियाणां चित्तस्वरूपानु-
कारितेव या भवति सा इन्द्रियाणां प्रत्याहार इत्युच्यते । अतःचित्त-
निरोधकाले चित्तवन्निरुद्धानीन्द्रियाणि स्वनिरोधाय नोपायान्तरभ-
पेक्षन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनुत्पतन्ति निविशमान-
मनुनिविशन्ते, तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ।
( द्र० यो० मा० तथा वा० पा० २ सू० ५४ ) ।
 
प्रधानजयः , प्रधानजय
सर्वप्रकृतिविकारवशित्वं प्रधानजयः । स च ग्रहणस्वरूपा-
स्मिताऽन्वयार्थवत्त्व संयमाज्जायमानेनेन्द्रियजयेन सिध्यति । ( द्र०
यो० मा० त० वै० पा० ३ सू० ४८ ) ।
सर्वासां व्यक्तिभेदेन अनन्तानां भूतेन्द्रियप्रकृतीनां सत्तादिगुणानां
तद्विकाराणां च सर्वेषां स्वेच्छ्वाऽनुविधानं प्रधानजय इति विज्ञान-
भिक्षुः । द्र० यो० वा० पा० ३ सू० ४८ । )।
 
प्रधाने निरतिशयं सौक्ष्यम् , प्रधाने निरतिशयं सौक्ष्य
पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः,
आप्यस्य रसतन्मात्रम्, तैजसस्य रूपतन्मात्रम्, वायवीयस्य स्पर्श-
तन्मात्रम्, आकाशस्य शब्दतन्मात्रञ्चेति । तेषां तन्मात्राणामहङ्कारः
सूक्ष्मो विषयः, अस्यापि लिङ्गमात्रम् ( बुद्धिः ) सूक्ष्मो विषयः,
लिङ्गमात्रस्यापि अलिङ्गं प्रधानं सूक्ष्मो विषय । । न चालिङ्गात्
प्रधानात् परं सूक्ष्ममस्ति । तस्मात् प्रधाने निरतिशयं सौक्ष्यमस्तीति ।
( द्र० यो० मा० पा० १ सू. ४५ ) ।
 
प्रपञ्चस्य नित्यानित्योभयरूपत्वम् , प्रपञ्चस्य नित्यानित्योभयरूपत्व
कार्यकारणभेदेन प्रकृत्यादोनां
सर्वेषां परिणामिनां प्रकारभेदेन नित्यानित्योभयरूपत्वम् इति
सिद्धान्तः । (द्र० यो० वा० पा० ३ सू० १३ ) ।
 
प्रपञ्स्य सदस्य सद्सद्रूपत्वम् ,प्रपञ्ञ्चस्य सद्सद्रूपत्व
प्रपञ्चस्य नित्यानित्योभयरूत्वादेव सद-
सद्रूपत्वमित्यपि सिद्धान्तः । ( द्र० यो० वा० पा० ३ सू०
१३ ) ।