This page has been fully proofread once and needs a second look.

योगकोश ।
 
प्रत्याहारः - , प्रत्याहार
इन्द्रिय विषयासंप्रयोगकाले इन्द्रियाणां चित्तस्वरूपानु-

कारितेव या भवति सा इन्द्रियाणां प्रत्याहार इत्युच्यते । अतःचित्त-

निरोधकाले चित्तवन्निरुद्धानीन्द्रियाणि स्वनिरोधाय नोपायान्तरभ-

पेक्षन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनुत्पतन्ति निविशमान-

मनुनिविशन्ते, तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ।

( द्र० यो० मा० तथा वा० पा० २ सू० ५४ ) ।
 
६८
 

 
प्रधानजयः - , प्रधानजय
सर्वप्रकृतिविकारवशित्वं प्रधानजयः । स च ग्रहणस्वरूपा-

स्मिताऽन्वयार्थवत्त्व संयमाज्जायमानेनेन्द्रियजयेन सिध्यति । ( द्र०

यो० मा० त० वै० पा० ३ सू० ४८ ) ।
 

सर्वासां व्यक्तिभेदेन अनन्तानां भूतेन्द्रियप्रकृतीनां सत्तादिगुणानां

तद्विकाराणां च सर्वेषां स्वेच्छ्वाऽनुविधानं प्रधानजय इति विज्ञान-

भिक्षुः । द्र० यो० वा० पा० ३ सू० ४८ । )।
 

 
प्रधाने निरतिशयं सौक्ष्यम् - , प्रधाने निरतिशयं सौक्ष्य
पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः,

आप्यस्य रसतन्मात्रम्, तैजसस्य रूपतन्मात्रम्, वायवीयस्य स्पर्श-

तन्मात्रम्, आकाशस्य शब्दतन्मात्रञ्चेति । तेषां तन्मात्राणामहङ्कारः

सूक्ष्मो विषयः, अस्यापि लिङ्गमात्रम् ( बुद्धिः ) सूक्ष्मो विषयः,

लिङ्गमात्रस्यापि अलिङ्गं प्रधानं सूक्ष्मो विषय । । न चालिङ्गात्

प्रधानात् परं सूक्ष्ममस्ति । तस्मात् प्रधाने निरतिशयं सौक्ष्यमस्तीति ।

( द्र० यो० मा० पा० १ सू. ४५ ) ।
 

 
प्रपञ्चस्य नित्यानित्योभयरूपत्वम् - , प्रपञ्चस्य नित्यानित्योभयरूपत्व
कार्यकारणभेदेन प्रकृत्यादोनां

सर्वेषां परिणामिनां प्रकारभेदेन नित्यानित्योभयरूपत्वम् इति

सिद्धान्तः । (द्र० यो० वा० पा० ३ सू० १३ ) ।
 

 
प्रपञ्स्यच सदसद्रूपत्वम् ,
प्रपञ्ञ्चस्य सदसद्रूपत्वम् -
 
-

प्रपञ्चस्य नित्यानित्योभयरूत्वादेव सद-

सद्रूपत्वमित्यपि सिद्धान्तः । ( द्र० यो० वा० पा० ३ सू०

१३ ) ।