This page has been fully proofread once and needs a second look.

• योगकोशः
 
६७
 
इति मन्तव्यम् । सा चार्याकारता बुद्धी परिणामरूपा न तु प्रतिविम्ब

रूपा, स्वप्नादी विषयामावेन बुद्धो तत्त्रतिविम्बासंभवात् । पुरुषे

तु प्रतिविम्वरूपैवार्थाकारता । पुरुषस्यापरिणामित्वेन विद्यमान-

वृत्तिमात्र ग्राहके पुरुपे सविषयबुद्धिवृत्तिप्रतिविम्वेनैवार्थाकारतोपपत्तेः ।

एवं बुद्धावपि चित्प्रतिविम्बं स्वीकार्यं मन्यथा चैतन्यस्य भानानु-

पपत्तेः । स्वयं साक्षात् स्वदर्शने कर्मकर्तृविराधेन बुध्यारूढतयै-

वात्मनो घटादिवज्ज्ञेयत्वाभ्युपगमात् । तथाचोमयत्रैवोभयस्य प्रति-

विम्बं भवतीति । ( द्र० यो० वा० पा० १ सू० ४ ) ।
 

 
प्रत्यक्चेतन:--, प्रत्यक्चेतनॉ
प्रतीपं विपरीतमश्चति विजानातीति प्रत्यक् सचासौ

चेतनश्चेति प्रत्यक्चेतनोऽविद्यावान् पुरुषः । (द्र० यो० मा० त०] वै०

पा० १ ० २९ ) ।
 

विज्ञानभिक्षस्तु - प्रति = प्रतिवस्तु, अञ्चति = अनुगच्छतीति व्युत्पत्त्या.

नङ्कुचितसर्वानुगतः परमात्मैव मुख्यः प्रत्यकुशव्दार्थः। विभुत्व-

गुणयोगात् जीवे गौणः प्रत्यक् शब्द इति । ( द्र० यो० वा० पा० १

सू० २९ ) ।
 

 
प्रत्यक्षम् , प्रत्यक्ष
इन्द्रिप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया

सामान्य विशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं

प्रमाणम् । तत्फलीभूतोऽविशिष्ट: पौरुपेयश्चित्तवृत्तिबोधश्च प्रत्यक्षप्रमा ।

( द्र० यो० वा० पा० १ सू० ७ ) ।
 

 
प्रत्ययानुपश्यः, प्रत्ययानुपश्य
प्रत्ययं बौद्धमनुपश्यतीति प्रत्ययानुपश्यः । तमनुपश्यन्

द्रष्टा तदात्मक इव प्रत्यवभासते । यथा निमंले जले स्वयमसंक्रान्तोऽ-

पि चन्द्र: सङ्क्रान्तप्रतिबिम्बतया सङ्क्रान्त इव भवति, एवम-

सङ्क्रान्ताऽपि चितिशक्ति: संक्रान्तप्रतिबिम्बा सती स्वयं सङ्क्रान्तेव

बुद्ध्यात्मत्वमापन्ना बुद्धिमनुपततीति चितिशक्तिः = द्रष्टा प्रत्ययानुपश्य

इत्युच्यते । ( द्र० यो० मा० त० वै० पा० २ सु० २० ) ।