This page has been fully proofread once and needs a second look.

तच्च प्रणवजपेन सह ब्रह्मध्यानमेवेति विज्ञानभिक्षुः । ( द्र० यो०
वा० पा० १ सू० २३-२८ ) ।
 
प्रतिक्षणपरिणामेऽपि क्षणिकत्वाभावः, प्रतिक्षणपरिणामेऽपि क्षणिकत्वाभाव
प्रतिक्षणपरिणामेऽपि धर्मिणि
न क्षणिकत्वमायाति । यतो हि धर्मिणि सत एव धर्मस्य यदा
तोताद्यवस्थात्रयं भवति तदानीं धर्मिणो धर्मान्यथात्वमेव भवति
न द्रव्यान्यथात्वम् स्वरूपान्यथात्वं वा । तथात्वे प्रतिक्षणं परिणामेन
क्षणिकत्वापत्त्या प्रत्यभिज्ञाद्यनुपपत्तिः स्यात् । अत एव प्रत्यभिज्ञा-
वलेन कटककुण्डलादिसर्वविकारानुगं सुवर्णसामान्यमेकं सिध्यति ।
सुवर्णसामान्यञ्चावयविरूपा धर्मीति । ( द्र० यो० वा० पा० ३
सू० १३ ) ।
 
प्रतिप्रसवः, प्रतिप्रसव
कार्यस्य कारणभावापत्तिः प्रतिप्रसव इति वाचस्पति-
मिश्राः । ( द्र० यो० भा० त० वै० पा० २ सू० १० ) ।
प्रसवाद् विरुद्धः प्रतिप्रसव प्रलय इति विज्ञानभिक्षुः । प्रतिलोम-
परिणाम: प्रतिप्रसव इति भोजवृत्तिः ।
 
प्रतिविम्बम् , प्रतिविम्ब– दर्पणे मुखप्रतिविम्ववत् स्वच्छायां बुद्धौ सन्निहित-
पुरुषस्य प्रतिविम्बं भवति । एवं दर्पणगतमालिन्यस्य मुखेऽभिमानवत्
बुद्धिवृत्तस्तदारूढविषयस्य च बोधो भवति पुरुषस्येति बुद्धावेव
चित्प्रतिविम्वो न तु चियपि बुद्धिप्रतिबिम्ब इति वाचस्पतिमिश्राः ।
( द्र० यो० मा० त० वै० पा० १ सू० ४ ) ।
विज्ञान भिक्षुस्त्वाह-चेतनेऽपि बुद्धिप्रतिबिम्बमवश्यं स्वीकार्यम् ।
अन्यथा कूटस्थनित्यविभुचैतन्यस्य सर्वसम्बन्धात् सदैव सर्वं वस्तु
सर्वैज्ञयेत, न हि सूर्यसम्बन्धे सति घटाद्यप्रकाशौ दृष्ट इति । अतोऽ-
यंमानस्य कदाचित्कत्वाद्युपपत्तयेऽर्थाकारतैव पुरुषस्याप्यथंग्रहणमिति
वाच्यम्, यथा बुद्धेरर्थाकारतैवार्थग्रहणमिति दृश्यते । अर्थात् यथा
बुद्धिरर्थाकारतां धारयतीत्येव तस्या अथंग्रहणमित्युच्यते तथा
पुरुषोऽपि अर्थाकारतां धारयतीत्येव तस्यापि अर्थग्रहणम् (अर्थबोध:)