This page has been fully proofread once and needs a second look.

प्रख्या - तत्त्वज्ञानम् ।
 

 
योगकोशः
 
, प्रख्या
तत्त्वज्ञानम् ।
 
प्रच्छर्दनम् , प्रच्छर्दन
कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां योगशास्त्रविहितात्

प्रयत्नविशेषाद् वहिर्वमनं प्रच्छदंनम् । द्र० यो० मा० त० वॅ०

पा० १ सू० ३४ ) ।
 
प्रज्ञा –

 
प्रज्ञा, प्रज्ञा
जीवब्रह्मान्यतरात्मतत्त्वसाक्षात्कारः प्रज्ञेति विज्ञानभिक्षुः ।

द्र० यो० वा० पा० १ सू० २० ) । प्रज्ञा = बुद्धिरिति विवरण-

कारः । पुरुषगोचरख्यात्यभ्यास इति मणिप्रभावृत्तिः ।

 
प्रज्ञाऽऽलोकः, प्रज्ञाऽऽलोक
समाधिगतप्रज्ञायाः प्रत्ययान्तरानभिभवेन निर्मल-

प्रवाहेऽवस्थानमेव प्रज्ञाऽऽलोकः । ( द्र० यो० मा० त० वै० पा० ३

सू० ५ ) ।
 

प्रज्ञाया आलोको दीप्तिर्बुद्धिरिति विज्ञानभिक्षुः ।

 
प्रज्ञासंस्कारप्रयोजनम् , प्रज्ञासंस्कारप्रयोजन
समाधिजप्रज्ञाजन्याः संस्काराः भोगाधिकार-

परिपन्थिनो भवन्तीति भोगाधिकारप्रशान्तिरेव प्रज्ञासंस्काराणां

प्रयोजनम् । (द्र० यो० भा० त० वै० पा० १ सू० ५० ) ।
 

 
प्रणवः - , प्रणव
ओंकारः ईश्वरस्य वाचकं नाम । तथा च योगसूत्रम् "तस्य

वाचकः प्रणवः" इति

( पा० १ सू० २७ ) ।
 

 
प्रणवार्थचिन्तनस्य द्वैविध्यम् - , प्रणवार्थचिन्तनस्य द्वैविध्य
प्रणवार्थंचिन्तनं मुख्यतया द्विविधम् -

तत्रेकमंशांशि- कार्यकारण-शक्तिशक्तिमदादिभेदेन तप्तायःपिण्डवत् अवि-

भागलक्षणैकीभावात् "अहं ब्रह्म सर्वं खलु ब्रह्म" इत्यादिरूपं भवति ।

अपरं च प्रकृति-तत्कायं-पुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्रे

आत्मत्वचिन्तनम् इति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १

सू० २८ ) ।
 

 
प्रणिधानम् , प्रणिधान
मानसो वाचिकः कायिको भक्तिविशेषःप्रणिधानमिति

वाचस्पतिमिश्राः । ( द्र० यो० मा० त० वै० पा० १ सू० २३ ) ।

असंप्रज्ञातकारणीभूतसमाधिर्भावनाविशेषः प्रणिधानमिह विवक्षितम् ।