This page has not been fully proofread.

योगकोशः
 
द्र० त० बैं० पा० १ सू० २४ ) । मिश्रमतानुसारम् प्रकृतौ क्षोम-
जननार्थं महाप्रलयेऽपि वर्तमाना भगवतो नित्येच्छा नाङ्गीकरणी-
येति विशेषः ।
 
प्रकृतेरेकत्वम्—–यद्यपि प्रकृतिगुणत्रयात्मिका तथापि एकैव प्रकृतिरिति
सिद्धान्तः । पुरुषभेदेन सर्गभेदेन च भेदाभावः प्रकृतेरेकत्वम् "अजा-
मेकाम्" इत्यादिवाक्यैः प्रतिपाद्यते । ( द्र० यो० वा० पा०.
 
२ सु० १८ ) ।
 
प्रकृतेरेव क्षोभो न पुरुषस्य–चलनादिक्रियारूपक्षोभः प्रकृतेरे
भवति । "प्रधानात् क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् ।
 
तत्तु
 
प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकमिति स्मृतेः । यच्च प्रकृते-
रक्रियत्वमुक्तं
अध्यवसायाभिमानादिरूपप्रतिनियतकार्य-
शून्यत्वमेव, न तु चलनादिकमंशून्यत्वम् । यत्तु क्वचित् पुरुष-
स्यापि क्षोभः श्रूयते स संयोगोन्मुखत्वेन गौणः, प्रकृतिकर्मणैवोमयोः
संयोगोत्पत्तेः । ( द्र० यो० वा० पा०२ सू० १८ ) ।
प्रकृतेः स्वातन्त्र्यम – प्रकृतिः स्वतन्त्रा, धर्माधमौ तु प्रकृतिका
प्रतिबन्धकमपनयतो न तु प्रकृति प्रयोजयतः । एवमाकाशे द्रव्या-
नारम्भिकापि अनुक्षणमणूनां क्रिया सर्वसम्मता । न च तत्र धर्माधर्मो
कारणं भवतः, तस्याः क्रियायाः कस्यापि भोगाहेतुत्वात् । नापि
तत्रेश्वरादिसङ्कल्पादिः कारणम्, गौरवात् । अतो निरन्तरमणु-
क्रियोपपत्तये लाघवेन गुणत्वेनंव सामान्यतः प्रवृत्तिकारणत्वात्
सहकार्य प्रयुक्ता प्रकृतिरेव परिणामे स्वतन्त्रा कारणमिति । ( द्र०
यो० वा० पा० ४ सू० ३ ) ।
 
-
 
प्रकृत्यापूरः - प्रकृतीनामवयवानुप्रवेश एव प्रकृत्यापूरः । यथा का
प्रकृतिः पृथिव्यादीनि भूतानि । अतः योगिसङ्कल्पात् तस्मिन् काये
परिणामान्तरजनने पृथिव्यादीनामवयवानुप्रवेशो भवति, स एव
प्रकृत्यापूरः । ( द्र० यो० मा० त० वै० पा० ४ सू० २ ) ।