This page has not been fully proofread.

योगकोशः
 
बहिर्गत्वा विदेहान् प्रत्यपि ईशते तत्रैव निर्मलं कारणसत्त्वनिर्मितं
विषयञ्च भुञ्जाना ईश्वरकोटय उच्यन्त इति । ( द्र० यो० मा०
त० वे० तथा यो० वा० पा० १ सू० १५ ) ।
 
६३
 
प्रकृतेः क्षोभहेतुः- परमेश्वरप्रयत्नेनैव गुणवैषम्यं भवति, तत्परेणेरितं
विषमत्वं प्रयातीति श्रुतेः । तथा "प्रकृति पुरुषं चैव प्रविश्यात्मेच्छया
हरि: । क्षोभयाभास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥" इति प्रमाणात्
प्रकृतेवैषम्यहेतुः क्षोभोऽपीश्वरेच्छात एव भवति । सा च परमेश्वरे-
अच्छा सदैवाप्रतिहता नित्या महाप्रलयेऽप्यस्तोति विज्ञानभिक्षुः ।
( द्र० यो० वा० पा० १ सू० २४ ) ।
 
अत्र वाचस्पतिमिश्राः – ज्ञानक्रिये सर्गहेतुभूते अपरिणामिन्यां
'चिच्छक्तौ न संभवत इति रजस्तमोरहितचित्तसत्त्वाश्रये एव ते
वक्तव्ये । यद्यपि सदामुक्तस्येश्वरस्याविद्याप्रभावेण तादृशचित्तसत्त्व-
समुत्कर्पेण सह स्वस्वाभिभावः सम्बन्धो न संभवति, अतो ज्ञान-
क्रियाश्रयीभूततादृशचित्तसत्त्वाभावात् ज्ञानक्रियाप्रयुक्तः सर्गों न
संभवति तथापि नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनः चित्तसत्त्वेन
स्वस्वामिभावोऽभ्युपगम्यते किन्तु तापत्रयपरीत जन्तूनामुद्दिधीर्षया
भगवान् सर्गादौ चित्तसत्त्वमुपादत्ते । यद्यपि उद्दिधीर्षाऽपि प्राकृतत्वात्
प्रलयावस्थायां न संभवति तथापि अनादी सगसंहारप्रबन्धे सर्गान्तर-
समुत्पन्नसंहारेच्छावधिसमये पूर्णे मया पुनः सर्गार्थं सत्त्वंप्रकर्ष
उपाय इति प्रणिधानं कृत्वा भगवान् जगत् संजहार । तदा च
पूर्वसर्गीयेश्वरचित्तसत्त्वं प्रणिधानवासनावशात् तथैवेश्वर चित्तसत्त्व-
भावेन परिणमते । यथा चैत्रः श्वः प्रातरेवोत्थातव्यं मयेति प्रणि-
धाय सुप्तः सन् तदैवोत्तिष्ठते प्रणिधान संस्कारात् । तथा च बीजा-
ङ्कुरवदनादित्वात् ईश्वरप्रणिधानसत्त्वोपादाने उभे अपि शाश्वतिके
इति नान्योन्याश्रयदोषोऽपि । तथा च महाप्रलयकाले नेश्वरस्य
चित्तसत्त्वं तिष्ठति न वा तदाश्रिते ज्ञानक्रिये अपि तिष्ठत इति ।