This page has been fully proofread once and needs a second look.

बिम्वार्पणेन जपास्फटिकयोरिव धर्मसांकर्यात् । तथा च पुरुषे एव
बुद्धिवृत्तिप्रतिविम्वो न तु बुद्धी चित्प्रतिबिम्ब इत्याह । शेषं
समानम् । द्र० यो० वा० पा० ३ सू० ३५ ) ।
 
पुरुषेऽन्वयिकारणत्वाभावः, पुरुषेऽन्वयिकारणत्वाभाव
यद्यपि पुरुषार्थो महदहङ्कारादीना-
मुत्पत्ती निमित्तं भवतीति पुरुषोऽपि प्रकृतिवत् कारणतया महदा-
दीनां सूक्ष्मं रूपं स्यात् तथापि पुरुषे महदादीन् प्रति अन्वय-
कारणत्वम् ( उपादानत्वं ) नास्तीति न पुरुषो महदादीनां सूक्ष्मं
रूपं किन्तु प्रकृतिरेवेति । ( द्र० यो० मा० त० वै० पा० १
सू० ४५ ) ।
 
पूरकः, पूरक
३ – यत्र बाह्यो वायुराचभ्यान्तर्धार्यते स पूरकः प्राणायामः ।

पूर्वजातिज्ञानम् - , पूर्वजातिज्ञान
स्मृतिहेतवोऽनुभवजन्या ये संस्कारा: येचाविद्यादि-
क्लेशानां हेतुभूता अविद्यादिसंस्काराः अथ च जात्यायुर्भोगरूप-
विपाकस्य हेतुभूता ये धर्माधर्मरूपाः संस्काराः तेषां संयमात् सा-
क्षात्कारे सिद्धे पूर्वजन्मानुभूतानां जात्यादीनां ज्ञानं भवतीति ।
( द्र० यो० मा० त० वै० पा० ३ सू० १८ ) ।
 
प्रकृतिप्रवृत्तौ धर्मादीनामहेतुत्वम् , प्रकृतिप्रवृत्तौ धर्मादीनामहेतुत्व
प्रकृतेः प्रवृत्ती धर्मादयो न प्रयो-
जकाः भवन्ति, तेषां प्रकृतिकार्यत्वात् । न हि कार्यं कारणं प्रयो
जयति, तस्य कारणाधीनोत्पत्तितया कारणपरतन्त्रत्वात्, स्वतन्त्रस्यैव
च प्रयोजकत्वात् । धर्मादीनामुपयोगस्तु प्रतिबन्धापनयनमात्रेणैव
भवति, यथा क्षेत्रिको नापः पाणिनाऽपकर्षति किन्तु आवरणमेव
भिन्नत्ति, तद्वत् । अत: प्रकृतिः स्वयमेव पुरुषार्थाय पवर्तत इति ।
(द्र० यो० भा० त० ० पा० ४ सू० ३) ।
 
प्रकृतिलयत्वम् , प्रकृतिलयत्व
ये प्रकृतिमेवात्मानमभिमन्यमाना प्रकृत्युपासका
साधिकारायामेव प्रकृतौ लीनास्ते प्रकृतिलया इत्युच्यन्ते । प्रकृति-
लयानां विदेहेभ्योऽयं भेदो यत् विदेहाः सावरणब्रह्माण्डान्तर्गता एवा-
रूपमैश्वर्यं मलिनं च विषयं भुञ्जते, प्रकृतिलयास्तु ब्रह्माण्डाद्