This page has been fully proofread once and needs a second look.

योगकोशः
 
कारो वशोकारसंज्ञारूपाद् प्रसिद्धादुत्कृष्ट इति । ( द्र० यो० मा०

पा० १ सू० ४० ) ।
 

अत्र परमाणवादी धारणात्रयो भवति - संक्षिप्ता, विशाला विकरणी

चेति ।
तत्रोभयको टिस्पशिनो विकरणो । परममहत्त्वान्तस्पृग्

विशाला परमाण्वन्तस्पृक् संक्षिप्तेति विवरणकारः । ( द्र० पा०

यो० सू० वि० पा० १ सु० ४० ) ।
 

 
परं प्रसंख्यानम् , परं प्रसंख्यान
चित्तं यदा रजोलेशादपि मलादपेतं सत् स्वरूप-

प्रतिष्ठं भवति, तदाऽस्य सत्त्वपुरुषान्यताख्यातिमात्र कार्यम--

वशिष्यते । तदानीं धर्मंमेघनामकथ्यानोन्मुखं च चित्तं भवति ।

तस्यैव परं प्रसंख्ानमित्याख्या व्यायिनामिति । ( द्र० यो भा०

त० वै० पा० १ सू० २ ) ।
 
2
 

 
पिङ्गला, पिङ्गला
दक्षनाडी ( दक्षिणनाडी ) ।
 

 
पुरुषज्ञानम् , पुरुषज्ञान
प्रख्याशीलं हि बुद्धिसत्त्वं रजस्तमसी वशीकृत्य विवेक-

ख्यातिरूपेण परिणतं भवति । तस्माच्च परिणामशीलात् बुद्धि-

सत्त्वात् अत्यन्तविधर्मा शुद्ध:: अन्यश्चितिमात्ररूपः पुरुषोऽस्ति ।

अतस्तौ सत्त्वपुरुषौ परस्परमत्यन्तासंकीणीं स्तः । तथापि शान्तघोर-

मूढरूपायां बुद्धो चैतन्यं प्रतिविम्वितं भवत् स्वयमपि शान्तघोरादि-

रूपमिव भवति यथा कम्पमाने जले प्रतिविम्बितश्चन्द्रः स्वयमपि

सकम्प इव भवति न तु वस्तुत: सकम्पः । अयमेव वुद्धिपुरुषयो।

प्रत्ययाविशेषरूपो भोगः । स च भोगः परार्थः, सत्त्वस्य परार्थत्वेन

तद्धर्मो भोगोऽपि परार्थं एवास्तीति तस्मात् पराथंभोगात् यो

विशिष्टः चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात् पुरुषविषयं-

ज्ञानं भवतीति । (द्र० यो० मा० त० वै० पा० ३ सू० ३५ ) ।
 

अत्र विज्ञानभिक्षुः – बुद्धेः प्रत्ययः सुखादिमती विषयाद्याकार-

चित्तवृत्तिः, पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बावच्छिचैतन्यांश..

सुखाद्यात्मकशब्दाद्यनुभवनामा । तयोरविवेकश्च बुद्ध्या पुरुषे स्वप्रति..
 
-