This page has been fully proofread once and needs a second look.

परिमाणा अपि गुणाः सन्तीति, गुणा एव च परमाणवः सन्तीति
चेति । न्यायवैशेषिकवत् तेषु परमाणुषु पृथिवीत्वा दिकं नास्ति,
गुणेषु पृथिवीत्वाद्य मिव्यञ्जकगन्धाद्यन ङ्गीकारादिति सिद्धान्तः ।
( द्र० यो० वा० पा० ३ सू० ५२ ) ।
 
परवैराग्यम् , परवैराग्य
परमात्मजीवात्मनोरन्यतरसाक्षात्काराभ्यासाद् हेतो-
रुत्पद्यमानं सकलगुणेषु वैतृष्ण्यं परं वैराग्यम् । अपरवैराग्ये वशी-
काराख्ये विषयदोषदर्शनात् विषयेष्वेव वैराग्यं न तु ज्ञानेऽपि ।
अविद्यानिवृत्याख्य प्रयोजनसिद्धये ज्ञानस्यापेक्षितत्वेन ज्ञानेऽलंबुद्धि-
रूपवैराग्यासंभवादिति । ( द्र० यो० वा० पा० १ सू० १६ ) ।
 
परशरीरावेशः, परशरीरावेश
स्वभावलोलं मनोऽप्रतिष्ठं सदपि यत्कर्माशयवशात्
शरीरे बद्धं भवति, बन्धकारणस्य तस्य कर्मणः समाधिबलात् शैथिल्यं
जायते, तथा समाधिवलादेव चित्तस्य गमनागमनमार्गाणां संवेदन-
मपि जायते । तेन योगी चित्तं स्वशरीरान्निष्कृष्य परशरीरे
निक्षिपति । चित्तमनु इन्द्रियाण्यपि परशरीरे प्रविशन्ति । (द्र० यो०
मा० त० वं० पा० ३ सू० ३८ ) ।
 
परिणामः, परिणाम
अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्ती धर्मान्तरोत्पत्तिः
परिणाम: । अत्र धर्मशब्द आश्रितत्वेन धर्मलक्षणावस्थानां वाचकः ।
तेन पूर्वधर्मलक्षणावस्थानां निवृत्ती अन्यधमंलक्षणावस्थानामवस्थिते
द्रव्ये उत्पत्तिः परिणाम इति निष्कर्ष: । ( द्र० यो० मा० त० वै०
पा० ३ सू० १३ ) ।
 
परो वशीकारः, परो वशीकार
अभ्यासात् परिकमितचेता योगी यदा स्वमनः सूक्ष्मे
निवेशयितुमिच्छति तदा परमाणुपर्यन्तभिदं स्थिति लभते । यदा
च स्थूले निवेशशयितुमिच्छति तदा परममहत्त्वान्तं स्थितिपदं
लभते । अर्थात् यथेच्छं सूक्ष्मतमं स्थूलतमं च चित्तं मवति । एवं
तामुमयीं कोटिमनुधावतोऽस्य चित्तस्य योऽप्रतिघातः, स परो वशी-