This page has not been fully proofread.

( vi )
 
सदा मुदं तनोति कोशरत्नद्वयमिदमित्यत्र न स्यात् काचिद् विप्रतिपत्तिः ।
अधिकृत्य सांख्ययोगशास्त्रं किमपि मौलिकान्वेषणगभं ग्रन्थान्तरं च
विरचय्य नातिचिरादेव विदुषां स्वान्तमाह्लादयति पण्डितप्रवरोऽ-
यभित्याशास्ते-
ति० रा० वेङ्कटाचलमूर्तिशर्मा
 
Dr. Siddheshvara Bhattacharya
 
Director of Sanskrit studies and Resarch,
 
Mayurbahanj Professor of Sanskrit and Head of the
Deptt. sanskrit and Pali, ( Retd )
Banaras Hindu University.
 
Varanasi--5
 
Date 19. 8. 74
 
काशी हिन्दू विश्वविद्यालयीय-प्राच्यविद्याधर्मं विज्ञान संकाये दर्शन-
विभागाध्यक्षा: श्रीकेदारनाथ त्रिपाठिनः परिशील्यमान-सांख्ययोगकोश-
कर्तारो विराजन्ते । श्रीमतां कृतिरियं प्रशस्तिमर्हति । प्रायशो दर्शन-
शास्त्रे प्रविविक्षूणां पारिभाषिकशब्दार्थज्ञानाभावात् सुष्ठु गतिनं भवतीति
मनसि निघाय सूक्ष्मेक्षिकया तत्तच्छन्दार्थानां कोशेऽस्मिन् तथा निर्वचनं
विहितं यथा तान् परिगृह्य सांख्ययोगशास्त्रकान्तारम् उद्यानायितं स्यात् ।
शब्दार्थानां परिष्कार आकरग्रन्थमित्तिक इति कोशोऽयं प्रामाण्यमावहति ।
प्राशासे प्रयत्नोऽयं बहुलप्रचारतामुपगमिष्यतीति-
शंसति
 
सिद्धेश्वरभट्टाचार्यः