This page has been fully proofread once and needs a second look.

स्वरूपावधारणमावमागापन्नं भोगः, मोक्तु: स्वरूपावधारणमपवर्ग: ।
अयमर्थः– इष्टानिष्टगुणा: सुखदुःखात्मका: शब्दादयः, तत्स्वरूपाव-
धारणं = तदाकारा बुद्धिवृत्तिरेव अविभागापन्ना अर्थात् अहङ्कारेण
ममेत्यात्मनिष्ठतयाऽभिमन्यमाना सती भोगः । सोऽपि बुद्धेरेव धर्मो
न पुरुषस्य, वृत्तबुद्धिधर्मत्वात् । एवं भोक्तुः पुरुषस्य यत् स्वरूपा-
वधारणम् अर्थात् उपाधिविविक्तचैतन्याकारा बुद्धिवृत्तिः सैव अप-
वर्गः । सोऽ प बुद्धेरेव धर्मः पुरुषाकारवृत्तेरपि बुद्धिधर्मत्वात् ।
अतो भोगापवर्गों बुद्धिधम, तदतिरिक्तौ वन्धमोक्षावपि बुद्धिधमौं-
इति । भवति चात्र पञ्चशिखवाक्यं प्रमाणम् । यथा -
"आद्यस्तु मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृच्छ्रक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥" इति ।
( द्र० यो मा० तथा यो० वा० पा० २ सू० १८ ) ।
 
परमाणुः , परमाणुःणु
लोष्टस्य हि प्रविभज्यमानस्य यस्मिन्नवयवेऽल्पत्वतारतम्यं
व्यवतिष्ठते सोऽपकर्षपर्यन्तः परमाणुः । ( द्र० यो० भा० त० वै०
पा० ३ सू० ५२ ) ।
अत्र विज्ञानभिक्षुः - 'अत्र दृष्टान्तादिना परसूत्रेण च साक्षादेवाण
परमाणुवचनात् वैशेषिकोक्तपरमाणवोऽव्यस्माभिरभ्युपगम्यन्ते । ते
चास्मदर्शने गुणशब्दवाच्या इत्येव विशेषः । न चात्रत्यभाष्ये पृथि-
व्यादिभूतपरमाणुरेव परमाणुशब्दार्थो युक्त इति वाच्यम् परमाणु-
विशेषणतयोक्तस्य द्रव्यशब्दस्य पृथिव्यादिभूतात्मक विशेषपरत्वे
प्रमाणाभावात् । सावयवस्य पृथिव्यादिपरमाणोः निरवयवकालपर-
माणुदृष्टान्तत्वानुपपत्तेश्च । यद्यपि प्रकृतेविभुत्वेन तदभिन्नगुणाना-
मणुपरिमाणत्वरूपं परमाणुत्वं न संभवि तथापि दर्शनेऽस्मिन्
अन्तःकरणानामाकाशस्य च हेतवो ये गुणास्तेषामेव विभुत्वाङ्गी-
कारात् । न खलु सर्वगुणानां विभुत्वमिह स्वीक्रियते, तथा सति
आद्यपरिणामहेतभूतक्षोभसंयोगाद्यसंभवात् । तस्मात् सिद्धं यदणु--