This page has been fully proofread once and needs a second look.

परचित्तज्ञानम् , परचित्तज्ञान
प्रत्ययस्य = रागादिमत्याः स्वकीयचित्तवृत्तेः संयमेन
आश्रया दिरूपाशेषविशेष: साक्षात्करणात् ततः तस्माच्चित्तात् परस्य
भिन्नस्य चित्तान्तरस्यापि अशेषविशेषतो ज्ञानं सङ्कल्पमात्रेणैव भव
तीति विज्ञानभिक्षुः । (द्र० यो० वा० पा० ३ सू० १९ । ।
विवरणकारस्तु – परप्रत्यये = परकीयचित्तवृत्तौ सयमेन परप्रत्ययस्य
साक्षात्करणम्, तत्साक्षात्करणे च तत्सम्बन्धिनः परचित्तस्य ज्ञानं
भवतीत्याह । प्रत्ययस्य = परचित्तस्य केनचिद् मुखरागादिना लिङ्गेन
गृहीतस्य, यदा संयमं करोति, तदा परचित्तस्य ज्ञानमुत्पद्यते,
सरागमस्य चित्तं विरागं वेति परचित्तगतान् सर्वानपि धर्मान् जाना-
तीति भोजवृत्तिः ।
अत्र नागेशभट्ट आह— यथा संस्कारसाक्षात्कारे सति तद्विषया-
दिकमपि विषयीक्रियते, तथा परचित्तसाक्षात्कारेऽमुकविषयक-
रागवानयमिति विषयज्ञानं न जायते संयमविषयेण स्वचित्तेन पर-
चित्तालम्वनस्याविषयीकरणात्, तत्प्रतिपादकशास्त्राभावात् । तत्र
रागवदस्य चित्तं विरागं वेत्येव ज्ञानादिति । ( द्र० पा० सू० वृ०
पा० ३ सू० १९ ) ।
 
परमबन्धपरममुक्ती, परमबन्धपरममुक्ती
वुद्धेरेव परमो = मुख्यो बन्धो मोक्षच पुरुषे
व्यपदिश्येते, स हि तत्फलस्य मोक्तेति । भोगोऽपवर्गचेति दी पुरु-
पाथ, तयोरपरिसमाप्तिरेव बन्धः स च बुद्धेरेव धर्म: तयोर्बुद्धि-
कृतत्वात्, बुद्ध्यैव करणीयत्वाच्च । तथा च बुद्धिकृती भोगापवर्गों
बुद्धेरेव धर्मं । एवं पुरुषार्थावसायो = विवेकख्यात्या भोगापवर्गंरूप-
पुरुषार्थसमाप्तिरेव मोक्षः । अयं मोक्षोऽपि बुद्धेरेव धर्मो विवेकख्याति-
मत्या बुद्ध्यैव कृतत्वात् ।
तथा च भोगापवर्गरूपैः पुरुषार्थैः सम्बन्धो बुद्धेर्बंन्धः, तैवियोगच
बुद्धेर्मुक्तिरिति । एतौ एव बुद्धेः परमबन्धपरममुक्ती स्तः ।
भोगापवर्गौ तु बन्धमुक्तिभ्यां भिन्नो मन्तव्यौ । तत्र इष्टानिष्टगुण-