This page has been fully proofread once and needs a second look.

कमलिनीव तुच्छस्वभावा, तेन न असत्यपि । प्रतोऽव्यक्तम्
निःसत्तासत्तमिति गीयते ।
 
निःसदसव्यक्तम् , निःसदसव्यक्त
निष्क्रान्तं कारणं सतः = कार्यादिति निःसत्
अव्यक्तम्. कार्यरहितमित्यर्थः । यद्यपि कारणावस्थायामपि महदादि-
कार्य शक्त्यात्मना तस्मिन्नव्यक्ते सदेवास्ति तथापि स्वोचितामर्थं-
क्रियामकुर्वद् असदित्युक्तम् इति दृष्ट्या निःसदव्यक्तम् । एवं कारण-
स्याव्यक्तस्य महदादिकार्यं शशविषाणायमानमपि नास्तीति दृष्ट्या-
निरसदव्यक्तम् । निष्क्रान्तमसतः तुच्छरूपात् कार्यादिति तस्यार्थः ।
अव्यक्तावस्थायां यदि महदादिकार्यं व्योमारविन्दमिव स्यात्तदा
नाव्यक्तात् कदाचिदुत्पद्येतेति । तस्मात् निःसदसदव्यक्तम् । ( द्र०
न्यो० मा० त० वै० पा० २ सू० १९ ) ।