This page has been fully proofread once and needs a second look.

हङ्काराश्चापि अनेके स्वस्वप्रकृतिभूतप्रधानबुद्ध्यापूराद् भवन्ति
युक्तिसाम्यात् । एवं कदाचिदेकेनैव चित्तेन योगिनो नानादेहेषु व्यव
हारं कर्तुं क्षमन्ते इत्यपि स्वीकरणीयम्, स्वतन्त्रेच्छस्य नियन्तुमशक्य-
त्वादिति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० ४ सू० ४ ) ।
 
निर्विचारा समापत्तिः, निर्विचारा समापत्ति - अतीनागतवर्तमानधर्मानवच्छिन्नेषु नील-
पीतादिप्रकाररहितेषु सर्वदेशकालनिमितानुभवैरनवच्छिन्नेषु कारण-
तया सर्वधर्मा ( कार्य ) नुपातिषु भेदाभेदाभ्यां सर्वधर्मात्मकेषु भूत-
मूक्ष्मेषु तन्मात्रोत्पन्नपरमाणुषु या स्वरूपशून्येवार्थमात्र निर्भासा
तत्स्थतदञ्जनता रूपा चित्तस्य समापत्तिः सा निर्विचारा समापत्तिः ।
( द्र० यो० भा० त० वै० पा० १ सू० ४४ ) । अत्र भूतसूक्ष्मेषु :
तन्मात्रेष्विति विवरणकारः ।
 
निर्वितर्का समापत्तिः, निर्वितर्का समापत्ति
यथा निविचारा समापत्तिः सूक्ष्मविषया
तथैव निर्वितर्का समापत्तिरपि स्थूलविषया भवति । तथा च योग-
सूत्रम् -- "स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्र निर्मासा निवितर्का"
पा० १ सू० ४३ ।
 
निर्वीबीजसमाधिः, निर्वीबीजसमाधि
परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन निरोध-
संस्कारोपजननद्वारा प्रज्ञया सहैव प्रज्ञाकृतसंस्कारस्यापि निरोधः ।
अर्थात् सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात् कारणा-
भावेन कार्यानुत्पादात् निर्वीज: समाधिरिति । ( द्र० यो० मा०
त० व० पा० १ सू० ५१ ) ।
 
निःसत्तासत्तमव्यक्तम् , निःसत्तासत्तमव्यक्त
सत्ता = = पुरुषार्थक्रियाक्षमत्वम्, असत्ता
तुच्छत्वम् । निष्क्रान्तम् सत्ताया असत्तायाश्च यत् तत् निःसत्ता-
सत्तम् ।

अयमर्थः, अयमर्थ
-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरव्यक्तं न क्वचित्
पुरुषायें उपयुज्यते इति दृष्ट्या न सती प्रकृतिः । नापि गगन-