This page has been fully proofread once and needs a second look.

धर्मित्वेन अन्वेति । तत्र तयोरभिभवप्रादुर्भावयोश्चित्तेन योऽनुगमः
स एव चित्तस्य निरोधपरिणाम: । यद्यपि व्युत्थान संस्काराणामपि
होयमानतया तदानीं सम्बन्धोऽस्त्येव तथापि प्रादुर्भवताऽतएव बलवता
निरोधसंस्कारेणैव निरोधपरिणाम इति समाख्या जातेति ( द्र०
यो० सू० भा० वि० पा० ३ सू० १ ) । व्युत्थानं सम्प्रज्ञातः, स
निरुध्यते येन, तत् परवैराग्यं निरोधः । तत्र यदा व्युत्थानसंस्कार-
स्याभिभवो निरोधसंस्कारस्य प्रादुर्भावश्च भवतस्तदा निरोधसंस्कार-
स्यासंप्रज्ञातस्य क्षणेनावसरेण युक्तं चित्तं भवति । तस्य निरोधक्षणस्य
चित्तस्य धर्मिण: त्रिगुणत्वेन चलस्य सदा परिणामशीलस्याभिभूत-
प्रादुभूतयोः संस्कारयोर्धमित्वेन योऽन्वयः स निरोधारूप: परिणाम
इति मणिप्रभाकारः ।
 
निर्माणकायः, निर्माणकाय
योगवलेन योगिना अनेके काया निर्मीयन्ते । स
निर्माणकायः ।
 
निर्माणचित्तम् , निर्माणचित्त
योगवलेन स्वसङ्कल्पनिर्मितं चित्तं निर्माणचित्तम् ।
तच्च निर्माणचित्तं पञ्चविधं भवति । जन्मजातम्, ओषधिजं,
मन्त्रजं, तपोजन्यं, समाधिजं चेति । ( द्रष्टव्यम् या० मा० पी०
४ सु० ६ ) ।
यदा योगिना एकदैव नाना काया निर्मीयन्ते तदा प्रतिकायं चित्ता-
पेक्षणात् निर्माणचित्तान्यपि अनेकानि करोति योगी । न च अनेक-
चित्तत्वे सर्वेषां चित्ताना मेकाभिप्रायानुरोधः परस्परप्रतिसन्धानञ्च
कथं स्यातामिति शङ्कनीयम् सर्वेषां चित्तानां प्रवृत्तिविशेषे प्रयो-
जकस्य एकस्य चित्तस्यापरस्य निर्माणात् । ( द्र० यो० भा० त०
वै० पा० ४ सू० ४-५ )। तानि च निर्माणचित्तानि अस्मिता-
मात्रात् उपादानकारणात् निर्मीयन्ते । अस्मिता = अहङ्कारः । मात्र-
पदेन मनसो व्यावृत्तिः । निर्माणचित्तेषु मनः सङ्कल्पमात्रेण निमित्त-
मात्रं भवति नोपादानम् । निर्माणचित्तवत् निर्माणबुद्धयो निर्माणा-