This page has been fully proofread once and needs a second look.

सा च निद्रा न वृत्तिसामान्याभावरूपा किन्तु जागरणे "सुखम-
हमस्वाप्सम्, दुःखमहमस्वाप्सम्, गाढं मूढोऽहमस्वाप्समित्या कारक-
स्मरणात् प्रत्ययविशेषो = वृत्तिविशेष इति योगसिद्धान्तः । ( द्व०
यो० भा० त० वै० पा० १ सू० १० ) ।
 
निरुद्धम् , निरुद्ध
निरुद्वस कलवृत्तिकं संस्कारमात्रशेपंषं चित्तं निरुद्धम् ।
 
निरुपक्रमं कर्म, निरुपक्रमं कर्मन्
आयुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च ।
तत्र यत् कर्म किञ्चत् कालानपेक्षमेव भोगदानाय प्रस्थितं दत्त-
बहुभोगमल्पावशिष्टफलं प्रवृत्तव्यापारं केवलं तत्फलस्य सहसा
भोक्तुमेकेन शरीरेणाशक्यत्वाद् विलम्बते, तत् सोपक्रमम् । उपक्रमो
व्यापारस्तत्सहितमित्यर्थः । किन्तु तदेव दत्तस्तोकफलं तत्कालमपेक्ष्य
फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपक्रमम् । ( द्र०
यो० मा० त० ० पा० ३ सू० २२ ) ।
तीव्रवेगेन फलदातृ आयुष्करं कर्म सोपक्रमं, मन्दवेगेन फलदातृ
आयुष्करं कर्म निरुपक्रममिति विज्ञानभिक्षुः । ( द्र० यो० वा०
पा० ३ सू० २२ ) ।
 
निरोधपरिणामः, निरोधपरिणाम
व्युत्थानं सम्प्रज्ञातः, असम्प्रज्ञातापेक्षया तस्यापि
व्युत्थानत्वात्, निरोधः = परवैराग्यम् । तथा च व्युत्थानसंस्कार-
स्याभिभवो निरोघसंस्कारस्याविर्भावश्न यदा भवतः तदा चित्तस्य
धर्मिणो निरोधक्षणस्य द्वयोरवस्थयोरन्वयो भवति । नहि चित्तं
धर्मि संप्रज्ञातावस्थायामसंप्रज्ञातावस्थायां संस्काराभिभव-
प्रादुर्भावयोः स्वरूपेण भिद्यते । तथा चैकस्य चित्तस्य धारावाहिक-
रूपेण निरोधक्षणान्वय एव निरोधपरिणाम इति वाचस्पतिमिश्राः ।
( द्र० यो० भा० त० वै० पा० ३ सू० ९ ) ।

अत्राह विवरणकारः, अत्राह विवरणकार
-एकस्य चित्तस्य प्रतिक्षणमिदं व्युत्थान-
संस्काराभिभवेन निरोधसंस्कारप्रादुर्भावेन च संस्कारान्यथात्वं
भवति । निरोधकालीनं तच्चित्तं तौ संस्कारद्वयाभिभवप्रादुर्भाव