This page has been fully proofread once and needs a second look.

नव योगिनः, नव योगिन्
उपायप्रत्पया योगिनो नवविधा भवन्ति । प्रथमन्तावत्
१ - मृदूपाय:, २ - मध्योपायः, ३ - अधिमात्रोपायश्चेति त्रयः । ते
त्रयोऽपि प्रत्येकं त्रिविधाः - १ - मृदुसंवेगः, २ - मध्यसंवेगः, ३-अघि-
मात्रसंवेगश्चेति नव भवन्ति । किन्तु एषु नवमस्य अधिमात्रोपायस्य-
तीवसंवेगस्य पुनस्त्रयो भेदाः – १ - अधिमान्त्रोपाय मृदुतीव्र संवेगः,
२ - अधिमात्रोपायमव्यतीव्र संवेगः, ३ - अधिमात्रोपायाधिमात्रतीव्रसंवेग-
चेति । संकलनया एकादश भेदा वर्णिताः पातञ्जलयोगसूत्रे ।
एतेषु यश्चरमः अघिमात्रोपायाधिभात्रतीव्रसंवेगो योगी तस्यासन्नतम
समाधिलाभः समाधिफलं च भवतीति । ( द्र० यो० वा० पा० १
सु० २२ ) ।
 
नाडी, नाडी
देहे द्वासप्ततिसहस्राणि नाड्यो भवन्ति । ( द्र० ह० यो० प्र०
उप० ४ श्लो० १८)।
 
नित्यत्वं द्विविधम् , नित्यत्वं द्विविध
नित्यता हि द्विविधा - कूटस्थ नित्यता, परिणामि-
नित्यता च । तत्र कूटस्थनित्यता पुरुषस्य परिणामिनित्यता गुणा-
नाम् । यस्मिन् परिणभ्यमाने तत्त्वं न विहन्यते तत्परिणामिनित्यम् ।
उभयसाधारणं नित्यत्वं तु तत्वानभिघात एव । तथा च पुरुषे
परिणामाभावे सति तत्त्वाविघातात् कूटस्थनित्यत्वमस्ति । गुणेषु च
धर्मलक्षणावस्थारूपाणां घर्माणामुदयव्ययरूपपरिणामसत्त्वेऽपि गुण-
रूपस्य धर्मिणस्तत्त्वाविघात एवेति गुणाः परिणामिनित्या उच्यन्ते ।
( द्र० यो० मा० त० वै० पा०४ सू० ३३ ) ।
 
निद्रा, निद्रा
जाग्रत्स्वप्नवृत्तीनामभावस्य कारणं बुद्धिसत्त्वाच्छादकं तमः,
तदेवालम्बनं विषयतयास्ति यस्याः सा अभावप्रत्ययालन्बना वृत्ति-
निद्रा । अर्थात् तथाविधतमोविषयिणी वृत्तिरेव निद्रावृत्तिरिति ।
त्रिगुणात्मके बुद्धिसत्त्वे यदा सत्त्वरजसी अभिभूय समस्तकरणावरकं
तम आविर्भवति तद। बुद्धेविषयाकारपरिणामाभावात् उद्भूततमो-
मयीं बुद्धिमवबुध्यमानः पुरुषः सुषुप्तो निद्रितोऽन्तःसंज्ञ इत्युच्यते ।