This page has been fully proofread once and needs a second look.

धारणातो ध्यानस्यायं भेदो यत् धारणा तु तस्मिन्नेव देशे तदवस्थ-
स्यैव चित्तस्य तद्विषयविकल्पितः प्रत्ययान्तरैः परामृष्टाऽपि भवति ।
यथा सूर्ये वार्यमाणस्य तद्गतपरिमण्डलतीव्रतर दीधितित्वादिप्रत्य-
येष्वपि धारणव, वृत्तिमात्रेण तत्रैव चित्तस्य वर्तमानत्वात् । व्यानन्तु
न तथा, किन्तु भिन्नजातीयप्रत्ययान्तरापरामृष्टैकप्रत्ययप्रवाह एव
हि ध्यानमिति भाष्यविवरणकारः । द्रष्टव्यं ध्यानसूत्रीयभाष्य-
व्याख्यानम् ।
 
ध्यानजं चित्तमनाशयम् , ध्यानजं चित्तमनाशय
पञ्चविधं निर्माणचित्तं भवति, तद् यथो-
दितम् – "जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः" यो० द० पा०
४ सू० १ । एवमुदितेषु पञ्चसु सिद्धचित्तेषु ध्यानजमेव चित्तम्
अपवर्गभागीयं भवति । तच्चानाशयमर्थात् कर्मवासनाभि: क्लेश-
वासनाभिश्च रहितं भवति । यतो हि रागादिनिवन्धना प्रवृत्तिरस्य
ध्यानजस्यानाशयस्य निर्माणचित्तस्य नास्ति । अतएव तस्य पुण्य-
पापादिभिरभिसम्बन्धोऽपि नास्तीति । (द्र० भा० त० वै० पा० ४
सू० ६ ) ।