This page has been fully proofread once and needs a second look.

योगकोशः
 
५१
 
स्वेच्छयो धर्मानुभवान् व्यवस्थापयितुमीश्महे इति । ( द्र० यो०

भा० त० वै० पा० ३ सू० १३ ) ।

 
धर्मी, धर्मिन्
"शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी" इति योगसूत्रम् ।

तथा च अतीतवर्तमानानागतधर्मेष्वनुपाती वर्तमानरूपेणानुगतो यो

भवति स धर्मी इति । यथा मृत्सुवर्णादिश्चूर्णपिण्डधटरुचकाद्यन्वयी

धर्मीत्युच्यते । ( द्र० यो० वा० पा० ३ सू० १४ ) ।
धारणा-

 
धारणा, धारणा
नाभिचक्रे, हृदयपुण्डरीके, मूर्ध्निज्योतिषि, नासिकाग्रे जो ह्वाग्रे

इत्येवमादिषु देशेषु वाह्ये वा चन्द्रसूर्याग्न्यादौ ईश्वरदेवतादिध्यानदेशे,

अन्यस्मिश्च शुभाश्रये हिरण्यगर्भवासवप्रजापतिप्रभृतौ चित्तस्य

वृत्तिमात्रेण ( ज्ञानमात्रेण ) बन्धो धारणा । ( द्र० यो० मा०

पा० ३ सू० १ ) ।
 

सूत्रोक्तं लक्षणं धारणाविशेषस्यैव प्राथमिकपरिच्छिन्नयोगाभि-

प्रायेणास्तीति धिज्ञानभिक्षुः । अतोऽन्यदपि धारणाया लक्षणं गारुडा-

दावुक्तम् । यथा-

प्राणायामैर्द्वादशभिर्यावत्कालः कृतो भवेत् ।
 

स तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥ इत्यादि ।
 

इदमेव हि धारणासामान्यलक्षणम्, अन्यथा क्षणमात्रेणापि धारणा-

पत्तेः । अतः सूत्रोक्तं विशेषलक्षणमपि प्राणायामद्वादशकालावच्छिन्न-

त्वेन विशेषणीयमिति । (द्र० यो० वा० पा० ३ सू० १ ) ।

 
ध्यानम्
-
, ध्यान
धारणाया यो देशस्तत्रैव ध्येयालम्बनस्य या एकतानता

सदृश: प्रवाहः, अन्यप्रत्ययैरपरामृष्टः, तद् ध्यानमिति भाष्यम् ।

इदमपि देशघटितं घ्यानलक्षणं प्राथमिकौत्सर्गिकव्यानाभिप्रायेणंव,

सर्वत्र ध्याने देशानियमात् । अतोऽस्य गारुडे लक्षणान्तरमुक्तम्-

"तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणा" इति । तस्यैव द्वादश-

प्राणायामकालेन धारणावच्चित्तस्य द्वादशघारणावच्छिन्नं चिन्तनं-

ध्यानमिति विज्ञानभिक्षुः ( द्र० यो० वा० पा० ३ सू० २ ) ।