This page has not been fully proofread.

योगकोशः
 
५१
 
स्वेच्छयो धर्मानुभवान् व्यवस्थापयितुमीश्महे इति । ( द्र० यो०
भा० त० वै० पा० ३ सू० १३ ) ।
धर्मी—"शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी" इति योगसूत्रम् ।
तथा च अतीतवर्तमानानागतधर्मेष्वनुपाती वर्तमानरूपेणानुगतो यो
भवति स धर्मी इति । यथा मृत्सुवर्णादिश्चूर्णपिण्डधटरुचकाद्यन्वयी
धर्मीत्युच्यते । ( द्र० यो० वा० पा० ३ सू० १४ ) ।
धारणा-नाभिचक्रे, हृदयपुण्डरीके, मूर्ध्निज्योतिषि, नासिकाग्रे जो ह्वाग्रे
इत्येवमादिषु देशेषु वाह्ये वा चन्द्रसूर्याग्न्यादौ ईश्वरदेवतादिध्यानदेशे,
अन्यस्मिश्च शुभाश्रये हिरण्यगर्भवासवप्रजापतिप्रभृतौ चित्तस्य
वृत्तिमात्रेण ( ज्ञानमात्रेण ) बन्धो धारणा । ( द्र० यो० मा०
पा० ३ सू० १ ) ।
 
सूत्रोक्तं लक्षणं धारणाविशेषस्यैव प्राथमिकपरिच्छिन्नयोगाभि-
प्रायेणास्तीति धिज्ञानभिक्षुः । अतोऽन्यदपि धारणाया लक्षणं गारुडा-
दावुक्तम् । यथा-
प्राणायामैर्द्वादशभिर्यावत्कालः कृतो भवेत् ।
 
स तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥ इत्यादि ।
 
इदमेव हि धारणासामान्यलक्षणम्, अन्यथा क्षणमात्रेणापि धारणा-
पत्तेः । अतः सूत्रोक्तं विशेषलक्षणमपि प्राणायामद्वादशकालावच्छिन्न-
त्वेन विशेषणीयमिति । (द्र० यो० वा० पा० ३ सू० १ ) ।
ध्यानम्
- धारणाया यो देशस्तत्रैव ध्येयालम्बनस्य या एकतानता
सदृश: प्रवाहः, अन्यप्रत्ययैरपरामृष्टः, तद् ध्यानमिति भाष्यम् ।
इदमपि देशघटितं घ्यानलक्षणं प्राथमिकौत्सर्गिकव्यानाभिप्रायेणंव,
सर्वत्र ध्याने देशानियमात् । अतोऽस्य गारुडे लक्षणान्तरमुक्तम्-
"तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणा" इति । तस्यैव द्वादश-
प्राणायामकालेन धारणावच्चित्तस्य द्वादशघारणावच्छिन्नं चिन्तनं-
ध्यानमिति विज्ञानभिक्षुः ( द्र० यो० वा० पा० ३ सू० २ ) ।