This page has been fully proofread once and needs a second look.

धर्मपरिणामः, धर्मपरिणाम
चित्ते धर्मिणि व्युत्थानधर्मंस्याभिभवो निरोधस्य
च धर्मस्य प्रादुर्भावो धर्मपरिणामः । एवं मृत्सुवर्णादिधर्मी
पिण्डाकाराद्धर्माद घटकटकादिरूपधर्मान्तरमुपसंपद्यमानो धर्मंतः
परिणमते घटाकार: कटकाकार इति । सोऽयं घर्मपरिणामः ।
( द्र० या० मा० पा० ३ सू० १३ ) ।
 
धर्ममेघ:, धर्ममेघ
"प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धम मेघ:
समाधिः" इति योगसूत्रम् पा० ४ सू० २९ । अर्थात् यो हि योगी
विवेकसाक्षात्कारमधिगत्य तत्राप्यकुसौदः सर्वभावाधिष्ठातृत्वरूपां
काभपि सिद्धि न प्रार्थयते तस्य केऽपि योगविध्ना न जायन्ते ।
अतो निरन्तरं विवेकख्य । तेरेवोदयात् तस्य योनिनो घर्मंमेघनामा
समाधिर्भवति सम्प्रज्ञातयोगस्य पराकाष्ठेति । द्रष्टव्यमत्रत्यं
वार्तिकम्
 
धर्मलक्षणावस्थानां धर्मिणो नैकान्तिकभेदाभेदौ, धर्मलक्षणावस्थानां धर्मिणो नैकान्तिकभेदाभेद
मृद्धर्मिणो ये
धर्माः घटमल्लिकादयः, तेषां धर्माणां यानि लक्षणानि अनागतवर्त-
मानातीतत्वानि, लक्षणस्य च वर्तमानस्य या अवस्था: नवपुराण-
त्वादयः, तासां धर्मलक्षणावस्थानां मृद्धर्मिणो नात्यन्तं भेदो
नाप्यत्यन्तमभेदो भवति, किन्तु भेदाभेदी उभावपि भवत इति
सिद्धान्तः । तदुक्तं वाचस्पतिमिश्रः – अनुभव एव हि धर्मिणो
धर्मादीनां भेदाभेदौ व्यवस्थापयति । न ह्यंकान्तिकेऽभेदे धर्मादीनां
( धर्मलक्षणावस्थानां ) धर्मिणो धर्मिरूपवद् ( धर्मिस्वरूपवत् )
धर्मादित्वम् ( धर्मत्वं लक्षणत्वमवस्थात्वञ्च संभवीनि ) नाप्यै-
कान्तिके भेदे गवाश्ववद् धर्मादित्वम् ।
स चानुभवोऽनैकान्कित्वमवस्थापयन्नपि धर्मादिषूपजनापायधर्म-
केष्वपि धर्मिणमेकम् ( उपजनापायरहितम् ) अनुगमयन्, धर्माश्च
परस्परतो व्यावर्तयन् प्रत्यात्मम् अनुभूयत इति तदनुसारिणो
( अनुभवानुसारिणो ) वयं न तम् ( अनुभवम् ) अतिवत्यं